________________
पलिकासमेतः। यञ्चोक्तं सर्गादौ व्यवहारश्चेत्यादि, तत्राह-प्रलय इत्यादि ।
प्रलये लुप्तविज्ञानस्मृतयः पुरुषा न नः ।
आभाखरादिसम्भूतस्तत एवेह संभवात् ।। ८४ ॥ उत्तरकालं प्रबुद्धानामित्येतद्विशेषणमसिद्धम् , तथाहि-नास्मन्मतेन प्रलयकाले प्रलुप्तज्ञानस्मृतयो वितनुकरणाः पुरुषाः सन्तिष्ठन्ते, किन्त्वाभास्वरादिषु स्पष्टज्ञानातिशययोगिषु देवनिकायेपूत्पद्यन्ते; ये तु प्रतिनियतनिरयादिविपाकसंवर्तनीयकर्माणस्ते लोकधात्वन्तरेषुत्पद्यन्त इति विवर्तकालेऽपि तत एवाभास्वरादेव्युत्वेहालुप्तज्ञानस्मृतय एव संभवन्ति । तस्मादुत्तरकालं प्रबुद्धानामिति विशेषणमसिद्धम् । अनैकान्तिकश्च हेतुः, सन्दिग्धविपक्षाव्यावृत्तिकत्वात् । किंचान्योपदेशपूर्वकत्वमात्रे साध्ये सिद्धसाध्यता, अनादेर्व्यवहारस्य सर्वेषामेवान्योपदेशपूर्वकत्वस्येष्टत्वात् । अथेश्वरलक्षणपुरुषोपदेशपूर्वकन्वं साध्यते, तदाऽनैकान्तिकत्वम् । अन्यथाऽपि व्यवहारसंभवादृष्टान्तस्य साध्यविकलता । एतच्च पूर्वमेव सामान्यं दूषणमुक्तम् ।। ८४ ॥
विरुद्धश्च हेतुरभ्युपेतबाधा च प्रतिज्ञाया इति दर्शयन्नाह-विमुखस्योपदेष्टुत्व. मित्यादि ।
विमुखस्योपदेष्ठत्वं श्रद्धागम्यं परं यदि ।
वैमुख्यं वितनुत्वेन धर्माधर्मविवेकतः ॥ ८५ ॥ ___ यदीश्वरोपदेशपूर्वकत्वं व्यवहारस्य संभवेत्तदा स्यादविरुद्धता हेतोः, यावताऽसौ विमतमुखत्वादुपदेष्टा न युक्तः। तच्च विमुखतं वितनुत्वेन-शरीरविरहादित्यर्थः । तञ्च विमततनुत्वमस्य कथं सिद्धमित्याह-धर्माधर्मविवेकत इति । शरीरकारणधर्माधर्मविरहादित्यर्थः । तथाचोद्योतकारेणोक्तम् । “यथा बुद्धिसत्तायामीश्वरस्य प्रमाणसंभवो नैवं धर्मादिसत्त्वे प्रमाणमस्ती"ति तस्मादीश्वरस्योपदेष्टुत्वासंभवात्तदुपदेशकत्वं व्यवहारस्य न सिद्ध्यति, किं त्वीश्वरव्यतिरिक्तान्यपुरुषोपदेशपूर्वकत्वमत इष्टविघातकारित्वाद्विरुद्धो हेतुः । अथेश्वरस्योपदेष्टुत्वमङ्गीक्रियते, तदा विमुखत्वमभ्युपेतं हीयत इत्यभ्युपेतबाधा । महाभूतादिकं व्यक्तमित्यादौ तु प्रयोगे हेतूनां पूर्ववदनेकान्तिकत्वं विपक्षे बाधकप्रमाणाभावात् , सामान्येन सिद्धसाध्यता, विशेषेण दृष्टान्तस्य साध्यविकलतेति योजनीयम् ।। ८५ ॥