________________
तत्त्वसङ्कहः ।
विशेषेण तर्हि साध्यत इति चेदाह-नित्येत्यादि ।
नित्यैकबुद्धिपूर्वत्वसाधने साध्यशून्यता।
व्यभिचारश्च सौधादेर्बहुभिः करणेक्षणात् ॥८१॥ एतच्च पूर्वमुक्तमपि निगमनार्थ पुनरनिहितम् । एका बुद्धिरस्येत्येकबुद्धिः, नित्यश्वासावेकबुद्धिश्चेति विग्रहः । यद्वा-नित्यैका बुद्धिरस्येति समासः। साध्यशून्यतेति । साधर्म्यदृष्टान्तस्येति शेषः । व्यभिचारश्चेति । हेतोरित्यध्याहारः । कथमित्याह ? सौधेत्यादि ॥ ८१॥ यञ्चोक्तं तर्वादीनामित्यादि; तत्राह-एतदेवेत्यादि ।
एतदेव यथायोग्यमवशिष्टेषु हेतुषु ।
योज्यं दूषणमन्यच्च किश्चिन्मानं प्रकाश्यते ॥ ४२ ॥ तत्रापि हि रूपादिमत्त्वादित्यादिसाधनेष्वेतदेव हि यथासंभवं दूषणं वाच्यम् । एतदेवेति । असिद्धत्वं, प्रतिबन्धाभावाव्यभिचारः, सति प्रतिबन्धे विरुद्धत्वं, साध्यवै. कल्यम् , सामान्येन सिद्धसाध्यतेत्यादि । तथाहि-तत्रापि यादृशं रूपादिमत्त्वं चेतनाबदधिष्ठितं तादृशं तर्वादिषु न सिद्धम् , रूपादिमत्त्वमात्रस्य प्रतिबन्धासिद्धेळभिचारः, प्रतिबन्धाभ्युपगमे सति इष्टविपरीतसाधनाद्विरुद्धत्वम् , साधर्म्यदृष्टान्तस्य साध्यविकलता, नित्यैकचेतनाधिष्ठितत्वेन साध्यधर्मेणान्वयासिद्धेः, सामान्येन सिद्धसाध्यता, विशेषेण व्यभिचारो घटादिष्वन्यथादर्शनादिति । एवमन्येष्वपि हेतुषु योज्यम् ॥ ८२ ॥ यञ्च स्थित्वा प्रवृत्तेरिति साधनमुक्तं तत्राधिकं दूषणमाह-स्थित्वेत्यादि ।
स्थित्वा प्रवृत्तिरण्वादेर्न सिद्धा क्षणभङ्गतः।
व्यभिचारश्च तेनैव तस्यापि क्रमवृत्तिता ॥ ८३ ॥ सर्वभावानामुदयसमनन्तरापवर्गितया क्षणमात्रमपि न स्थितिरस्तीति कुतः स्थित्वा प्रवृत्तिर्भविष्यति, तस्मात्प्रतिवाद्यसिद्धो हेतुः । अनैकान्तिकश्च तेनैवेश्वरेण, यत ईश्वरः क्रमवत्सु कार्येषु स्थित्वा प्रवर्त्तते । अथ च नासौ चेतनावदधिष्ठितोऽनवस्थाप्रसङ्गात् । अथाचेतनत्वे सतीति सविशेषणो हेतुः क्रियते, यथा प्रशस्तमतिना कृतः, तथाऽपि संदिग्धविपक्षव्यावृत्तिकतयाऽनैकान्तिकत्वमनिवार्यमेव । यदेव हि विशेषणं विपक्षातुं निवर्तयति तदेव न्याय्यम् , यत्पुनर्विपक्षे सन्देहं न व्यावर्तयति तदुपात्तमप्यसत्कल्पमेव । पूर्वोक्तश्चासिद्धतादिदोषः सविशेषणत्वेऽपि तदवस्थ एव ॥८३॥