________________
पविकासमेतः। यस्क्रमिविज्ञेयविषयं ज्ञानं तत्क्रममावि, यथा देवदत्तादिविज्ञानं ज्वालादिगोचरम् , कमिविज्ञेयविषयं चेश्वरज्ञानमिति स्वभावहेतुः । प्रसङ्गसाधनं चेदम् । तेनाश्रयासि. छता हेतो शनीया । सामान्यादिपदार्थविषयं देवदत्तादिविज्ञानं साधनधर्मविकलमिति ज्वालादिगोचरमुदाहृतम् । किं पुनरत्र बाधकं प्रमाणम् ? उच्यते-यदि क्रमवता विषयेण तदीश्वरज्ञानं स्वनिर्भासमुपजन्येत, तदा सिद्धमेव ऋमित्वम् । अथ न जन्यते, तदा प्रत्यासत्तिनिबन्धनाभावान्न तज्जानीयात् । विषयमन्तरेणापि भवतः प्रामाण्यं वाऽभ्युपगतं हीयेत । नष्टाजाते च विषये निर्विषयत्वप्रसङ्गः स्यादिति । इदमत्र बाधकं प्रमाणम् ॥ ७७ ॥
यचोतं "वैधयेणाणवो मताः” इति तदपि वैधम्र्योदाहरणमनिवृत्तसाध्यधर्मकमित्यादर्शयन्नाह-अणुसंहतिमात्रमित्यादि ।
अणुसंहतिमात्रं च घटायस्माभिरिष्यते। तत्कारकः कुलालादिरणूनामेव कारकः ॥ ७८ ॥ न व्यावृत्तस्ततो धर्मः साध्यत्वेनाभिवाञ्छितः।
अणूदाहरणादस्माद्वैधयेण प्रकाशितात् ॥७९॥ अवयविनो विस्तरेण प्रतिषेत्स्यमानत्वात् प्रतिषिद्धत्वाचेत्यतः कुलालादेरणूनामेव कारकत्वं प्रसिद्धम् । अतो बुद्धिमत्पूर्वकत्वं साध्यधर्मोऽणुभ्यो वैधम्र्येण प्रकाशितेभ्यो न व्यावृत्त इत्यव्यावृत्तसाध्यधर्मता दोषो वैधर्म्यदृष्टान्तस्य ।। ७८ ॥ ७९ ॥ । __ स्यादेतत्-यद्यस्माभिर्विशेषः साधयितुमिष्टः स्यात्तदा साध्यविकलता साधर्म्यदृष्टान्तस्य पूर्वोक्ता स्यात् , यावता सामान्येन बुद्धिमत्पूर्वकत्वमानं साध्यते, तस्मिंश्च सिद्ध तर्वादीनां सामर्थ्यादीश्वरः कर्ता सिद्ध्यति, न हि घटादिवत्तेषां कुलालादिः कर्त्ता संभवति, तेन सामान्यस्य विशेषविशिष्टत्वात् , तर्वादिषु चान्यस्य कर्तुरसंभाव्यमानत्वात् , सामर्थ्याद्विशेषपरिप्रहमन्तरेणापीश्वर एव कर्ताऽमीषां सिध्यतीत्याह-बुद्धिमत्पूर्वकत्वेत्यादि ।
बुद्धिमत्पूर्वकत्वं च सामान्येन यदीष्यते ।
तत्र नैव विवादो नो वैश्वरूप्यं हि कर्मजम् ॥ ८॥ एवं हि सिद्धसाध्यतादोषः । कस्मादित्याह-वैश्वरूप्यं हीत्यादि-वैश्वरूप्यम्सत्वभाजनलोकस्य वैचित्र्यम् , कर्मजमिति । साधारणासाधारणशुभाशुभकर्मजनितम् । अतः शुभाशुभकर्मकारिणः पुरुषा बुद्धिमन्तोऽस्य कारणतामापद्यन्त सिद्धसाध्यता ॥ ८०॥