________________
तत्त्वसङ्ग्रहः । तदेव दर्शयन्नाह तथाहीत्यादि ।
तथाहि सौधसोपानगोपुराहालकादयः । ___ अनेकानित्यविज्ञानपूर्वकत्वेन निश्चिताः ॥७३॥ किंच न केवलमसिद्धोऽनैकान्तिकश्च हेतुः, अपि तु विरुद्धोऽपीति दर्शयतिअत एवेत्यादि ।
अत एवायमिष्टस्य विघातकृदपीच्य (ज्य?) ते। __ अनेकानित्यविज्ञानपूर्वकत्वप्रसाधनात् ॥ ७४ ॥ अत एवेति । साध्यविपरीतधर्मव्याप्तितः। न केवलं पूर्वोक्तेन विधिनाऽसिद्धोऽनैकान्तिकश्चेत्यपिशब्देनाह ॥ ७४ ॥
ननु च विपर्यये प्रतिबन्धसद्भावे सति विरुद्धः स्यात् । अस्य च बुद्धिमत्पूर्वकमात्रेऽपि न प्रतिबन्धोऽस्ति, तत्कथं तद्विशेषे स्यादित्याह-बुद्धिमद्धेतुमात्रे हीत्यादि ।
बुद्धिमद्धेतुमाने हि प्रतिबन्धस्त्वयोदितः। . द्वितीये पुनरस्माभिर्विस्पष्टमभिधीयते ॥ ७ ॥
त्वयेश्वरवादिना बुद्धिमद्धेतुमाने प्रतिबन्धो वर्णितः । अन्यथा सामान्येनापि प्रतिबन्धासिद्धौ कथमीश्वरहेतुकत्वं भावानां सिद्ध्येत् । तस्माद्भवदमिप्रायतो बुद्धिमत्पूर्वकत्वमात्रस्य सिद्धस्य सिद्धत्वमभ्युपेत्य भवदमिमतात्साध्यविशेषाद्यदेतहितीयमनित्यानेकविज्ञानपूर्वकत्वलक्षणमिष्टविपरीतसाध्यं तस्मिन्द्वितीये साध्यविशेषेऽस्मामिहेंतोविस्पष्टं प्रतिबन्धोऽभिधीयते ॥ ७५ ॥ कथमसौ विस्पष्टमभिधीयत इत्याह-क्रमाक्रमेत्यादि ।
क्रमाक्रमविरोधेन नित्या नो कार्यकारिणः ।
विषयाणां ऋमित्वेन तज्ज्ञानेष्वपि च क्रमः ॥ ७६ ॥ न हीश्वरादयो नित्यभावाः कार्यकारिणः, नित्यस्य क्रमयोगपद्याभ्यामर्थक्रियाविरोधात् । तस्मादनित्या एवार्थक्रियाकारिणः । ते च प्रतिक्षणमपरापरस्वभावा भवन्तीति सिद्धमनित्यत्वमनेकत्वं च बुद्धिमतः कर्तुः । यदपीश्वरस्य नित्यैकबुद्ध्युपेतत्वं प्रतिज्ञातं तदप्यनुमानविरुद्धमिति दर्शयन्नाह-विषयाणामित्यादि ॥ ७६ ॥ क्रमभावीत्यादिना प्रमाणयति ।
क्रममावीश्वरज्ञानं क्रमिविज्ञेयसङ्गतेः। देवदत्तादिविज्ञानं यथा ज्वालादिगोचरम् ॥ ७७॥
NahanesHD