________________
४९
पलिकासमेतः। कथं तर्हि कार्यसमं जात्युत्तरमुदाहृतमित्याह-सामान्येत्यादि ।
सामान्यप्रतिबन्धे तु विशेषाश्रयणी यदा।
चोदना क्रियते तत्र जात्युत्तरमुदाहृतम् ॥ ६९ ॥ साध्येन सह सामान्येन साधनधर्मस्य विपक्षे बाधकप्रमाणवृत्त्या प्रतिबन्धे सिद्धेऽपि सति यत्र धर्मविशेषमाश्रित्य चोदना क्रियते, तन्नात्युत्तरम्, न चेह सामान्येन प्रतिबन्धः सिद्धः, यस्य तु सन्निवेशविशेषप्रतिबन्धोऽस्ति सोऽसिद्ध इति न जात्युत्तरमेतत् ॥ ६९॥
अथाप्रतिबद्धमपि सामान्यं गमकं स्यात् , तदातिप्रसङ्गः स्यादिति दर्शयन्नाहगोशन्देत्यादि।
गोशब्दवाच्यतामात्रादिगादीनां विषाणिता।
संसिद्ध्येतन्यथा ह्येष न्यायो नाश्रीयते यदि ॥ ७० ॥ एवं हि स्वर्गदिग्वचनलोचनकिरणकुलिशभूपयसामपि गोशब्दाभिधेयतामात्राद्वाहुलेयादिवद्विषाणवत्तानुमानप्रसङ्गः ॥ ७० ॥
स्यादेतत्कृतकत्वादिवदस्यापि सन्निवेशविशिष्टत्व (त्वेन ?) बुद्धिमत्कारणपूर्वकत्वमेव, प्रतिबन्धोऽस्त्येवेत्याह-यदि त्वित्यादि ।
यदि तु प्रतिबन्धोऽस्मिन्प्रमाणे नोपपद्यते ।
तदत्र युक्तितः सिद्धे न विवादोऽस्ति कस्यचित् ॥ ७१॥ किं तु स एव प्रतिबन्धो न सिद्ध इति दर्शयन्नाह-किंत्वित्यादि ।
किन्तु नित्यैकसर्वज्ञनित्यबुद्धिसमाश्रयः।
साध्यवैकल्यतोऽव्याप्तेन सिद्धिमुपगच्छति ॥७२॥ न हि भवतां बुद्धिमत्पूर्वकत्वमात्रं साधयितुमिष्टं किं तु नित्य एकः, सर्वज्ञाया बुद्धेर्नित्याया आश्रयः सकलभुवनहेतुर्बुद्धिमानीश्वराभिधानो यः पदार्थः, तत्पूर्वकत्वमस्य साधयितुमिष्टम् । तस्यैव विवादास्पदीभूतत्वात् , स च तथाभूतो न सिद्धिमुपगच्छति । कस्मात् ? साध्यवैकल्यतोऽव्याप्तेः । घटादेः साधर्म्यदृष्टान्तस्य यथोक्तसाधर्म्यवैकल्यात्तथाभूतेन साध्यधर्मेण हेतोात्यसिद्धेः । न हि यथोक्तसाध्यधर्मेण कचिदृष्टान्ते हेतोः प्रतिबन्धोऽस्तीति यावत् ॥ ७२ ॥