________________
४८
तत्वसङ्ग्रहः। रेव । तदृष्टाविति-धूमादिकार्यदृष्टौ सत्याम् । यद्येवमिहापि तथैव भविष्यतीत्याह
-सन्निवेशविशेषस्त्वित्यादि । यस्तर्हि शब्दसामान्यतः सिद्धः सन्निवेशः स एव हेतुर्भविष्यतीति चेदाह-तादृश इत्यादि । तादृशः-शब्दमात्रेणाभेदी । कुम्भकारकृताविवेति । मृद्विकारत्वमात्रमिति शेषः । तदेवं सन्निवेशविशेषस्यासिद्धिः, सन्निवेशमात्रस्य त्वनैकान्तिकत्वमिति प्रतिपादितं भवति ॥ ६३ ॥ ६४ ॥ ६५ ॥ नन्वित्यादिना परो जात्युत्तरमुद्भावयति ।
ननु जात्युत्तरमिदं धर्मभेदविकल्पनात् ।
सामान्यमेव कार्यादि साधनं प्रतिपादितम् ॥ ६६ ॥ कार्यसमं जात्युत्तरमेतत् । तथाहि कृतकत्वादनित्यः शब्द इत्युक्ते जातिवादी चोदयति । किमिदं घटादिगतं कृतकत्वं हेतुत्वेनोपादीयते । किं वा शब्दगतमथोभयगतमिति । आये पक्षे हेतोरसिद्धिः । न ह्यन्यधर्मोऽन्यत्र विद्यते । द्वितीयेऽपि साधनविकलो दृष्टान्तः । तृतीयेऽप्येतावेव दोषाविति । एतच्च कार्यसमं नाम जात्युत्तरमिति प्रतिपादितम् । यथोक्तम्-"कार्यत्वान्यत्वलेशेन यत्साध्यासिद्धिदर्शनं तत्कार्यसम"मिति । यतः कार्यत्वसामान्यमेव गृहीत्वाऽनित्यत्वानुमानमिष्यते न विशेषम् । तेन सामान्येन साधनेऽभीष्टे धर्मविशेषविकल्पेन यदुत्तरं तत्कार्यसमं जात्युत्तरमिति व्यवस्थितम् । एतच्च धर्मभेदेन विकल्पनमतो जात्युत्तरमिति ॥ ६६ ॥ अतद्रूपेत्यादिना परिहरति ।
अतद्रूपपरावृत्तं वस्तुमात्रमनित्यताम् ।
तादात्म्यात्साधयत्येष न न्यायोऽस्तीह साधने ॥ ६७॥ युक्तमेतत् । यतः कृतकत्वमात्रमनित्यतां साधयति । तस्य तादात्म्यलक्षणप्रतिबन्धसद्भावादिति । इह तु स्वारम्भकावयवसनिवेशविशिष्टत्वमात्रसाधने नायं न्यायोऽस्ति । सन्निवेशसामान्यस्य विपर्यये बाधकाभावात्प्रतिबन्धासिद्धेः, यस्य तदुत्पत्तिलक्षणः प्रतिबन्धः सिद्धः, यदुपलम्भादक्रियादर्शिनोऽपि कृतबुद्धिर्भवति तस्यासिद्धेरिति भावः ॥ ६७ ॥
अथ तदुत्पत्त्याप्रतिबन्धविशेष परित्यज्य सामान्यमेव लिङ्गमुच्यते तदा व्यमिचारितेति दर्शयत्राह-धूमेत्यादि ।
धूमात्मा धवलो दृष्टः पावकाव्यभिचारवान् । सिताभिधेयतामात्रान हिमादपि तद्गतिः ॥ ६॥