________________
४७
पलिकासमेतः। ___ तदेवं विशेष्यविशेषणाश्रयाणामसिद्धेनिविधा हेतोरसिद्धतोक्ता, चतुर्थमप्याचार्यनिर्दिष्टमसिद्धप्रकारमाह-सन्निवेशेत्यादि ।
सन्निवेशविशिष्टत्वं याग्देवकुलादिषु। कर्तर्यनुपलब्धेऽपि यदृष्टौ बुद्धिमद्गतिः ॥११॥ ताहगेव यदीक्ष्येत तन्वगादिषु धर्मिषु ।
युक्तं तत्साधनादस्माद्यथाऽभीष्टस्य साधनम् ॥ ६२॥ यो हि संनिवेशविशेषो बुद्धिमत्पुरुषव्यापारपूर्वकत्वेन देवकुलादिष्वन्वयव्यतिरेकाभ्यां लोके प्रसिद्धो यस्य दर्शनाददृष्टतत्कर्तृकस्याऽपि बुद्धिमत्कारणावगतिर्भवति, तथाभूतो यदि तनुतरुगिरिप्रभृतिषु साध्यधर्मिषु हेतुत्वेनोपादीयते, तदा स्याद्भवताममिमतसाध्यसिद्धिः । नह्यन्वयव्यतिरेकाभ्यां सुविवेचितं कार्य कारणं व्यभिचरति, तस्याहेतुकत्वप्रसंगात् । न च तथाभूतसन्निवेशविशेषस्तरुगिरिप्रभृतिषु प्रसिद्धः, केवलं संनिवेश इति प्रलापमानं प्रसिद्धम् । न च प्रकृत्या परस्परमर्थान्तरत्वेन व्यवस्थितोऽपि धर्मः शब्दमात्रेणाभेदी हेतुत्वेनोपादीयमानोऽभिमतसाध्यसिद्धये पर्याप्तो भवति । साध्यविपर्ययेऽपि तस्य भावाविरोधात् । यथा वल्मीके धर्मिणि कुम्भकारकृतत्वसिद्धये मृद्विकारमात्रं हेतुत्वेनोपादीयमानमिति समुदायार्थः । अवयवार्थस्तूच्यते । यदृष्टौ बुद्धिमद्गतिरिति । यस्य सन्निवेशस्य दृष्टौ सत्यां बुद्धिमतः कारणस्य गतिरनुमितिर्भवतीत्यर्थः । तन्वगादिष्विति । तनुः-शरीरम् , अगाः-प
ता वृक्षा वा, आदिशब्देन सागरादयो गृह्यन्ते । यथाऽभीष्टस्येति । बुद्धिमत्पूर्वकत्वस्य । साधनमिति । सिद्धिः ॥ ६१ ॥ ६२ ॥ कथं युक्तमित्याह-अन्वयेत्यादि ।
अन्वयव्यतिरेकाभ्यां यत्कार्य यस्य निश्चितम् । निश्चयस्तस्य तदृष्टाविति न्यायो व्यवस्थितः ॥ ६३ ॥ सन्निवेशविशेषस्तु नैवामीषु तथाविधः । न तु तर्वादिभेदेषु शब्द एव तु केवलः ॥ ६४ ॥ तादृशः प्रोच्यमानस्तु सन्दिग्धव्यतिरेकताम् ।
आसादयति वल्मीके कुम्भकारकृतादिषु ॥६५॥ यत्कार्यमिति-भूमावि । यस्येति-अनलादेः । निश्चयस्तस्येति-अनलादे