________________
४६
तत्त्वसङ्ग्रहः।
तत्सामर्थ्यसमुद्भूतकल्पनानुगतात्मकम् । प्रतिसन्धानविज्ञानं समुदाय व्यवस्यति ॥ ५९॥ जलानलादि नैवेदं द्वीन्द्रियग्राह्यमस्त्यतः ।
आश्रयासिद्धताऽसिद्धेर्यथाऽभिहितधर्मिणः ॥ ६॥ तयोः-वर्णस्प्रष्टव्यमात्रप्रतिभासिनोश्चक्षुःस्पर्शनविज्ञानयोः सामर्थ्यम्-शक्तिः, ततः समुद्भूतः कल्पनानुगत आत्माऽस्येति विग्रहः । तदनेन प्रतिसन्धानप्रत्ययस्याप्रत्यक्षत्वं प्रतिपादितं भवति । अनेकस्मिन्नेकत्वाध्यवसायित्वेनास्य भ्रान्तित्वात् , कल्पनानुगतात्मत्वाच । नापि प्रमाणान्तरम् , पूर्वज्ञानपरिच्छिन्नविषयावसायित्वेन गृहीतप्रहणात् , भ्रान्तत्वाच्च । तस्मात्प्रतिसंधीयमानत्वादित्यनैकान्तिको हेतुः । यदि हि प्र. तिसन्धानप्रत्ययस्य प्रामाण्यं सिद्धं भवेत्तदा न स्याद्धेतोरनैकान्तिकता, यावता येषु रूपादिषु साधारणा(e) सामर्थ्यप्रकाशनाय घटादिप्रज्ञप्तयः कृतास्तेषु यथावं चक्षुःस्पर्शनाभ्यामनुभूतेषूत्तरकालं यथापरिदृष्टविषयमनुरूपसङ्केताहितसंस्कारभेदमेकत्वाध्यवसायि प्रकृतिभ्रान्तं स्मार्तमिदं ज्ञानमुत्पद्यते । तथा हि-तथा समन्वाहारे तत्र वर्णोऽपि नीलादिः प्रतिभासते । न च स्पर्शनविज्ञाने वर्णप्रतिभासनं युक्तम् , तस्य चक्षुर्विज्ञानविषयत्वात् । तस्माद्यदेतदाचार्यैरुक्तम्-"चक्षुःस्पर्शनाभ्यां यथास्वं भिन्नं विषयमुपलभ्यान्यदेव तत्सहचरं समुदायविषयं स्मार्तभेदज्ञानमुत्पद्यत" इति तदेव न्याय्यम् । ननु यदि समुदायः प्रागनुभूतः स्यात्तदा स्मार्त्तमिदं युक्तम् , यावता न रूपादिव्यतिरिक्तः समुदायो भवतामभीष्टो येनासावनुभूयेत, रूपादिषु चानुभूतेषु रूपादिरिति स्यात् , न घट इति, न चाननुभूते स्मृतियुक्ता, तत्कथमिदं समुदायवि. षयं स्मार्त ज्ञानमुत्पद्यते । नैतदस्ति । न हि रूपादिभ्योऽन्यः समुदायः प्रागनुभूत इत्युच्यते, येनैतत्स्यात् , किं तु त एव रूपादयः सलिलादिधारणार्थक्रियाकारिणः समुदायो घट इति व्यपदिश्यन्ते । तेषु च प्रत्येकमिन्द्रियज्ञानानुभूतेषु यथासङ्केताहितमिदं घट इति स्मरणमुत्पद्यत इत्यभिधीयते । अथवा कल्पितः समुदायः कल्पनाज्ञानात्मकत्वात्वसंविदाऽनुभूयत एवेति किमिति तस्य स्मरणं नोत्पद्यत इति । अतः स्वारम्भकावयवसंनिवेशविशिष्टत्वादित्यस्य हेतोराश्रयासिद्धता कस्मादित्याहअसिद्धेर्यथाऽभिहितधर्मिण इति । यथाऽमिहितस्य द्वीन्द्रियप्रावधर्मिणोऽसिद्धेः कारणादाश्रयैकदेशासिद्ध्या हेतोरसिद्धिः ॥ ५९॥ ६०॥