________________
४८
पखिकासमेतः। दृश्यत्वेनाभ्युपेतस्य द्वयस्यानुपलम्भनात् ।
साधनानन्वितं चेदमुदाहरणमप्यतः॥५७ ॥ तत्र संक्षेपेण स्वभावानुपलम्भाख्यमेव प्रमाणं बाधकमाह । विस्तरेण षट्पदार्थपरीक्षायामनयोर्दूषणममिधास्यते-द्वयस्यापीति । संनिवेशावयविसंमतस्य । तथाहि
-संनिवेशो दृश्यत्वेनाभ्युपेतः, "संख्यापरिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपिसमवायाचाक्षुषाणी"ति वचनात् । अवयवी च दृश्यत्वेनेष्टः, "महत्यनेकद्रव्यवत्त्वाद्रूपाचोपलब्धि"रिति वचनात् । न रूपादिव्यतिरेकेणापरः संयोगोऽवयवी च दृश्यत्वेनेष्टो बुद्धौ प्रतिभासत इति । अत उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः शशविषाणवदसद्व्यवहारविषयता । न च परमाणूनामतीन्द्रियत्वाद्रूपादीनामनुपलब्धिप्रसङ्गः, विशिष्टानामिन्द्रिय(गम्य)त्वाभ्युपगमादतीन्द्रियत्वासिद्धेः । अत एव संयोगावयविनोरभावात्साधर्म्यदृष्टान्तो घटः साधनधर्मविकल इति दर्शयतिसाधनानन्वितमित्या: ।। ५७ ॥
एवं तावद्विशेषणविशेष्यासिद्ध्या स्वरूपतोऽसिद्धत्वं हेतोः प्रतिपादितमिदानीमाश्रयैकदेशासिद्ध्याऽप्यसिद्धत्वमिति दर्शयति-चक्षुरित्यादि ।
चक्षुःस्पर्शनविज्ञानं भिन्नाभमुपजायते ।
एकालम्बनता नास्ति तयोर्गन्धादिवित्तिवत् ॥ ५८॥ अत्र हि द्विविधो धर्मी निर्दिष्टो द्वीन्द्रियग्राह्यमग्राह्यं च । तत्र द्वीन्द्रियग्राह्यो न कश्चिद्धर्मी सिद्धः । तथाहि-चक्षुर्ज्ञानं स्पर्शज्ञानं चोभयं यथाक्रमं नीलादिरूपमा
प्रतिभासित्वात्कर्कशादिस्प्रष्टव्यभेदमात्रप्रसिद्धत्वाच्च मिन्नाभमुपजायते । ततश्च तयोश्चक्षुःस्पर्शनविज्ञानयोरेकविषयता नास्ति मिन्नाभत्वाद्गन्धरसादिवित्तिवत् । प्रयोगोऽयम्-मिन्नप्रतिभासे ज्ञाने ते नैकविषये, यथा गन्धरसविज्ञाने, मिन्नामे च चक्षु:स्पर्शनविज्ञाने, इति व्यापकविरुद्धोपलब्धिः । आभासभेदेष्येकविषयत्वे रूपशब्दादिवित्तीनामप्येकविषयत्वप्रसङ्ग इत्येतदत्र बाधकं प्रमाणम् ॥ ५८ ॥
यदि तर्हि नैकविषयताऽनयोस्तत्कथमिदं प्रतिसन्धानज्ञानं भवति । यः प्रकाशे मया दृष्टो घटः स एवान्धकारे स्पृश्यत इति, तस्मादनुमानवाधितेयं प्रतिज्ञा, तत्रेदमनुमानमुद्योतकारोक्तम्-विवादविषयापन्नौ दर्शनस्पर्शनप्रत्ययावेकविषयौ प्रतिसन्धीयमानत्वानीलोत्पलप्रत्ययवदिति तत्राह-तत्सामर्थेत्यादि ।