________________
४४
तत्त्वसङ्ग्रहः । वायलक्षणानि प्रयोजनमुपभोगं संप्रदानसंज्ञाकांश्च पुरुषान् जानीत इति । अतः सिद्धमस्य सर्वज्ञत्वमिति । कार्यरूपादिवेदक इति । कार्यस्य ये रूपादय:-खभावादयः, आदिशब्देनोपादानादीनां ग्रहणम् , तेषां वेदक इति समासः । याजकादेराकतिगणत्वात् , कर्मण्यणं वा विधाय स्वार्थिकः को विधेयः । शेषं सुबोधम् ॥ ५४ ॥
तथा अपरं प्रमाणकदम्बकं तैरुक्तम् । विचित्रोदयप्रस्पन्दास्पदानास्पदं विमत्यधिकरणभावापन्नं द्वितीयादिप्रमाणपञ्चकव्यतिरिक्तप्रमाणान्तरावच्छेद्यम् । वस्तुत्वादिभ्यो रूपादिवत् । वैधम्र्येण कूर्मरोमादय इति । तत्र विचित्रोदयो गुणपदार्थ उच्यते, विचित्र उदयोऽस्येति कृत्वा, प्रस्यन्दः कर्मपदार्थः, तयोरास्पदं समवायिकारणं द्रव्यम् , अनास्पदं गुणादयः पञ्च समवायपर्यन्ताः, द्वितीयादिप्रमाणपञ्चकमनुमानमारभ्याभावपर्यन्तं, तद्व्यतिरिक्तं प्रमाणान्तरं प्रत्यक्षं, शेष सुबोधम् । अयमपरो हेतुस्तैरुक्तः । सदाद्यविशेषास्कन्दितानास्कन्दितं विमत्यधिकरणभावापन्नं कस्यचित्प्रत्यक्षं सत्त्वादूपादिवदिति । तत्र सदादयः षडविशेषाः सदनित्यं द्रव्यवत्कार्य कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणां विशेषाः, तैरास्कन्दितमाक्रान्तं यथासंभवं द्रव्यगुणक
त्मिकं पदार्थत्रयमनास्कन्दितं सामान्यादि । शेषं सुगमम् । तदेतत्प्रमाणकदम्बकं दर्शयति-विमतेत्यादि ।
विमतेरास्पदं वस्तु प्रत्यक्षं कस्य चित्स्फुटम् ।
वस्तुसत्त्वादिहेतुभ्यः सुखदुःखादिभेदवत् ॥ ५५ ॥ तदत्रासिद्धतेत्यादिनोत्तरपक्षमारभते।
तदत्रासिद्धता हेतोः प्रथमे साधने यतः।
सन्निवेशो न योगास्यः सिद्धो नावयवी तथा ॥५६॥ तत्र यदचेतनं तदधिष्ठातारमन्तरेण न स्वकार्यमारभत इत्यादौ प्रयोगे साध्यविपर्यये हेतोर्बाधकप्रमाणाभावात्संदिग्धविपक्षव्यावृत्तिकतया हेतोरनैकान्तिकतेति भावः । यचायं स्वारम्भकावयवसंनिवेशविशिष्टत्वादितिहेतुः प्रथमे साधनप्रयोगे, सोऽसिद्धः, कथमित्याह-यत इत्यादि । अवयवसंनिवेशशब्देन हि संयोगविशेषोऽमिप्रेतः, तद्विशिष्टत्वं चावयव्याख्यस्य द्रव्यस्य, तयोरपि विशेषणविशेष्ययोरसिद्धत्वाद्विध हेत्वसिद्धिः ॥ ५६ ॥
कथं पुनर्द्वयमसिद्धमित्याह-दृश्यत्वेनेत्यादि । ....