________________
पविकासमेतः। प्रशस्तमतिस्त्वाह-"सर्गादौ पुरुषाणां व्यवहारोऽन्योपदेशपूर्वकः, उत्तरकाल प्रबुद्धानां प्रत्यर्थनियतत्वात् । अप्रसिद्धवाग्व्यवहाराणां कुमाराणां गवादिषु प्रत्यर्थनियतो वाग्व्यवहारो यथा मात्राद्युपदेशपूर्वक" इति । प्रबुद्धानां प्रत्यर्थनियतत्वादिति । प्रबुद्धानां सतां प्रत्यर्थनियतत्वादित्यर्थः । यदुपदेशपूर्वकः सर्गादौ व्यवहारः स ईश्वरः प्रलयकालेप्यलुप्तज्ञानातिशय इति सिद्धं दर्शयति-सर्गादावित्यादि ।
सर्गादौ व्यवहारश्च पुंसामन्योपदेशजः ।
नियतत्वात्प्रवृद्धानां कुमारव्यवहारवत् ॥५१॥ सर्गः सृष्टिरुत्पाद इति यावत् । तस्यादिः प्रथमः कालः । शेषं तु सुबोधम् ॥५१॥
तथा अपराणूद्योतकारोक्तानि प्रमाणानि "बुद्धिमत्कारणाधिष्ठितं महाभूतादिकं व्यक्तं सुखदुःखनिमित्तं भवति । अचेतनत्वात्कार्यत्वाद्विनाशित्वाद्रूपादिमत्त्वात् , वाश्यादिव"दिति । एतानि दर्शयति-महाभूतादिकमित्यादि ।
महाभूताादेकं व्यक्तं बुद्धिमहेत्वधिष्ठितम् । याति सर्वस्य लोकस्य सुखदुःखनिमित्तताम् ॥५२॥ अचेतनत्वकार्यत्वविनाशित्वादिहेतुतः।।
वास्यादिवदतस्स्पष्टं तस्य सर्वे प्रतीयते ॥ ५३॥ (बुद्धिमद्धत्वधिष्ठितम्-) चेतनावताऽधिष्ठितम् । अत इति । यथोक्ताद्धेतुकदम्बकात् । तस्येति । ईश्वरस्य सर्वजगद्धेतोः ॥ ५२ ॥ ५३॥
अथ सर्वज्ञत्वं कथं तस्य सिद्धं येनासौ निःश्रेयसाभ्युदयकामानां भक्तिविषयतां यायादित्याह-सर्वकर्तृत्वसिद्धौ चेत्यादि ।
सर्वकर्तृत्वसिद्धौ च सर्वज्ञत्वमयत्नतः।
सिद्धमस्य यतः कर्ता कार्यरूपादिवेदकः ॥ ५४॥ तथाचाहुः प्रशस्तमतिप्रभृतयः-सकलभुवनहेतुत्वादेवास्य सर्वज्ञत्वं सिद्धम् । कर्तुः कार्योपादानोपकरणप्रयोजनसंप्रदानपरिज्ञानात् । इह हि यो यस्य कर्ता भवति स तस्योपादानादीनि जानीते । यथा कुलालः कुम्भादीनां कर्ता तदुपादानं मृत्पिण्डमुपकरणानि च चक्रादीनि प्रयोजनमुदकाहरणादि कुटुम्बिनं च संप्रदानं जानीत इत्येतत्प्रसिद्धम् , तथेश्वरः सकलभुवनानां कर्ता स तदुपादानानि परमाण्वादिलक्षणानि तदुपकरणानि धर्माधर्मदिकालादीनि व्यवहारोपकरणानि सामान्यविशेषसम