________________
तत्त्वसङ्ग्रहः
अभ्युपेतबाधा च, अण्वाकाशादीनां तथाऽनभ्युपगमात् । तेषां च नित्यत्वात्प्रत्यक्षादिबाधा । अतस्तदर्थ विमत्यधिकरणभावापन्नग्रहणम् । विविधा मतिर्विमतिर्विप्रतिपत्तिरिति यावत् , अस्या अधिकरणभावापन्नं विवादास्पदीभूतमित्यर्थः । एवंविधे सति शरीरेन्द्रियभुवनादय एव पक्षीकृता इति नाग्वादिषु प्रसङ्गः । कारणमात्रपूर्वत्वेऽपि साध्ये सिद्धसाध्यता माभूदिति बुद्धिमत्कारणग्रहणम् । सांख्यं प्रति बुद्धिसत्त्वानुपपतेर्न सिद्धसाध्यता, अन्यतिरिक्ता हि बुद्धिः प्रधानात्सांख्यैरिष्यते । न च तेनैव तदेव तद्वद्भवति । स्वारम्भकाणामवयवानां संनिवेशः प्रचयात्मकः संयोगः । तेन विशिष्टं व्यवच्छिन्नं तद्भावस्तस्मात् । अवयवसन्निवेशविशिष्टत्वं गोत्वादिमिळमिचारीत्यतः खारम्भकग्रहणम् । गोत्वादीनि तु द्रव्यारम्भकावयवसन्निवेशेन विशेष्यन्ते, नतु खारम्भकावयवसन्निवेशेनेति । तेन योऽसौ बुद्धिमान् स ईश्वर इति । तदेतत्प्रमाणं यदित्यादिश्लोकद्वयेन निर्दिष्टम् । वारम्भकावयवसंनिवेश एव विशेषो-विशेषणं सोऽस्यास्तीति तत्तथोक्तम् । तेन विशिष्टमित्यर्थः । एतेन हेतोर्व्याप्तिदर्शिता । पक्षधमत्वादि दर्शयन्नाह द्वीन्द्रियेत्यादि । विवादपदमिति । विवादाधिकरणापन्नमित्यर्थः ॥ ४७ ॥४८॥ द्वितीयं च तदुक्तं प्रमाणं बोधयन्नाह–तत्त्वादीनामित्यादि ।
तत्त्वादीनामुपादानं चेतनावदधिष्ठितम् ।
रूपादिमत्त्वात्तन्वादि यथा दृष्टं खकार्यकृत् ॥ ४९ ॥ तत्त्वादीनां-शरीरादीनाम् , उपादानं परमाण्वादि चेतनेन कारणेनाधिष्ठितं सस्वकार्यकृदिति संबन्धः । रूपादिमत्त्वादिति हेतुः । तन्त्वादीति दृष्टान्तः । यथोक्तम्- "तनुभुवनकरणोपादानानि चेतनावदधिष्ठितानि स्वकार्यमारभन्त इति प्रतिजानीमहे । रूपादिमत्वात्तन्त्वादिवदि"ति ॥ ४९ ॥ ___ उद्योतकारस्तु प्रमाणयति-"भुवनहेतवः प्रधानपरमाण्वदृष्टाः स्वकार्योत्पत्तावतिशयबुद्धिमन्तमधिष्ठातारमपेक्षन्ते स्थित्वा प्रवृत्तेस्तन्तुतुर्यादिव”दिति । एतदेव दर्शयति -धर्माधर्माणव इत्यादि।
धर्माधर्माणवस्सर्वे चेतनावदधिष्ठिताः ।
खकार्यारम्भकाः स्थित्वा प्रवृत्तेस्तुरितन्तुवत् ॥५०॥ सुबोधम् ॥५०॥