________________
पलिकासमेतः। विषयबुद्ध्युपेततया मिन्नगुणत्वाद्रव्यान्तरमेवेत्यपरे । ननु धर्माधर्मपरमाण्वादि जगतः कारणमस्त्येव तत्किमर्थमीश्वरमपरं कारणत्वेन कल्पयन्तीत्यत आह-नाचेतनमित्यादि । यद्यपि धर्मादि कारणं तथाऽपि तदचेतनत्वादधिष्ठायकमन्तरेण न स्वयं स्वकार्यमारब्धुमुत्सहत इत्यतस्तदधिष्ठायकेन केनचित्क; भवितव्यम् , न हि किंचिद्चेतनं स्वतश्रमधिष्ठायकं दृष्टमिति । प्रयोगः-यदचेतनं तदधिष्ठातारमन्तरेण न स्वकार्यमारभते, यथा मृत्पिण्डदण्डसलिलसूत्रादयः कुम्भकाररहिताः कुम्भम् , अचेतनं च धर्मादीनीति व्यापकविरुद्धोपलब्धिः । तस्माद्योसावधिष्ठाता (स) ईश्वर इति सिद्धम् । न चैवं सति धर्माधर्मादीनां वैयर्थ्यम् , निमित्तकारणत्वादीश्वरस्येति । स्यादेतद्यदात्मसमवेतौ धर्माधर्मों स एवात्माऽधिष्ठाता भविष्यति । तत्किमीश्वरेण परिकल्पितेनेति। तदसम्यक् । तस्यात्मनस्तदानीमज्ञत्वात् , यावद्धि तस्य शरीरेन्द्रियादिः कार्यकारणसंघातो नोत्पद्यते तावदयमज्ञ उपलभ्यानपि रूपादीन्विषयानोपलभते, कुतोऽनुपलभ्यौ धर्माधर्मवुपलप्स्यत इति । यथोक्तम् "अज्ञो जन्तुरनीशोयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वे"ति ॥ ४६॥ तत्राविद्धकर्णोपन्यस्तमीश्वरसाधने प्रमाणद्वयमाह-यत्स्वारम्भकेत्यादि ।
यत्वारम्भकावयवसनिवेशविशेषवत् । बुद्धिमद्धेतुगम्यं तत्तद्यथा कलशादिकम् ॥ ४७॥ द्वीन्द्रियग्राह्यमग्राह्यं विवादपदमीदृशम् ।
बुद्धिमत्पूर्वकं तेन वैधयेणाणवो मताः ॥४८॥ तदुक्तम्-'द्वीन्द्रियग्राह्याग्राह्यं विमत्यधिकरणभावापन्नं बुद्धिमत्कारणपूर्वकं स्वारम्भकावयवसंनिवेशविशिष्टत्वात् , घटादिवत्, वैधhण परमाणव इति । तत्रद्वाभ्यां दर्शनस्पर्शनेन्द्रियाभ्यां ग्राह्यं महदनेकद्रव्यवत्त्वरूपाद्युपलब्धिकारणोपेतं पृथिव्युदकज्वलनसंज्ञितं त्रिविधं द्रव्यं द्वीन्द्रियग्राह्यम् । अग्राह्यं वाय्वादि, यस्मान्महत्वमनेकद्रव्यवत्त्वं रूपसमवायादिश्चोपलब्धिकारणमिष्यते, तञ्च वाय्वादौ नास्ति । यथोक्तम्-महत्त्वादनेकद्रव्यवत्त्वाद्रूपाचोपलब्धिः । अद्रव्यवत्त्वात्परमाण्वाव(य?)नुपलब्धिः । रूपसंस्काराभावाद्वायो(र)नुपलब्धिः । रूपसंस्कारो रूपसमवायः । व्यणुकादीनां त्वनुपलब्धिरमहत्त्वा"दिति । अत्र सामान्येन द्वीन्द्रियग्राह्यापापस्य बुद्धिमत्कारणपूर्वत्वसाधने सिद्धसाध्यता दोषो घटादिषु । उभयसिद्धेः । विवादाभावात् ।