________________
तत्त्वसवहः ।
शक्तियुक्तमेकं नित्यं कारणं तदाऽनैकान्तिकता हेतोः । तथाभूतेन कचिदप्यन्वयासिढेरसिद्धश्च हेतुः, न हि व्यतिरिक्तशक्तिवशात्कस्यचित्कारणस्य कचित्कार्ये प्रवृत्तिः सिद्धा, शक्तीनां स्वात्मभूतत्वात् । यत्रोक्तम् , "अविभागाद्वैश्वरूपस्येति"तदसिद्धम् । निरन्वयविनाशधर्मत्वात्सर्वभावानां कचिदपि लयासिद्धः। तथाहि-लयो भवन्पूर्वखभावप्रच्युतौ वा सत्यां भवेदप्रच्युतौ वा, यदि तावत्प्रच्युतौ तदा निरन्वयविनाशासङ्गः, अथाप्रच्युतौ तदा लयानुपपत्तिः, न विकलमात्मतत्वमनुभवतः कस्यचिल्लयो युक्तोऽतिप्रसङ्गात् । तस्मात्परस्परविरुद्धमिदमविभागो वैश्वरूप्यं चेति । तदेवं प्रधानहेत्वभावेऽपि कारणस्य शक्तिभेदेन हेतुना कार्यस्य परिमाणादिरूपेण वैचित्र्यं कार्यकारणविभागादिश्वोत्पद्यत इत्यनैकान्तिकता हेतूनाम् । आदिशब्देन शक्तितः प्रवृत्तेरियेतस्य ग्रहणम् । अथवा प्रधानहेत्वभावेऽपीयपिशब्दोऽवधारणे । तेनायमों भवति । प्रधानहेत्वभाव एव कारणशक्तिभेदेन हेतुना कार्यस्य परिमाणादिरूपेण वैचित्र्यं(त्र्यस्य ?) कार्यकारणतादेश्वोपपद्यमानत्वाद्विरुद्धता हेतूनामिति । तथाहि
-यदि प्रधानं व्यक्तस्य कारणं स्यात् तदा तदात्मत्वेन सर्वमेव विश्वं तत्स्वरूपबदेकमेव द्रव्यं स्यात् । ततश्चैका बुद्धिरहङ्कारपञ्चतन्मात्राणीत्यादिपरिमाणविभागो न स्यात् । तथा च सति निष्परिमाणमेव जगत्स्यात् । तथा कुलालादीनां घटादिकरणे शक्तितः प्रवृत्तिः प्रधानहेत्वभाव उपपद्यते, न तु तद्भावे । यथोक्तं प्राक् “न च शक्तिर्न च क्रियेति । कार्यकारणविभागोऽपि प्रधानहेत्वभाव एव सति युक्तः । पूर्वमावेदितं वैश्वरूप्यं च प्रधाने सति नोपपद्यत एव । तन्मयत्वेन सर्वस्य जगतः तत्स्वरूपवदेकत्वप्रसङ्गादित्युक्तम् , ततश्च वैश्वरूप्यमादित एव नास्तीति कुतस्तस्याविभागः स्यादिति ॥ ४५ ॥
इति प्रकृतिपरीक्षा। इदानीमीशव्यापाररहितत्वं प्रतिपादयन्नाह-सर्वोत्पत्तिमतामित्यादि ।
सर्वोत्पत्तिमतामीशमन्ये हेतुं प्रचक्षते।
नाचेतनं खकार्याणि किल प्रारभते स्वयम् ॥ ४६॥ अनुत्पत्तिमतामण्वाकाशादीनां नित्यत्वान्न किंचित्कारणमस्तीत्यत उत्पत्तिमतामित्युक्तम् । ईशमिति ईश्वरम् । अन्य इति नैयायिकादयः । तत्र विशिष्टगुणमात्मान्तरमेव सर्वस्य जगतः कर्तृ सर्वज्ञमीश्वरमिति केचित् । आत्मव्यतिरिक्तं नित्यैकसर्वार्थ