________________
पलिकासमेतः। पुनरपि समन्वयादित्यस्य हेतोः खतोऽनैकान्तिकत्वमिति प्रतिपादयन्नाह-चैतन्येत्यादि ।
चैतन्यायन्वितत्वेऽपि नैकपूर्वत्वमिष्यते ।
पुरुषाणाममुख्यं चेत्तदिहापि समं न किम् ॥ ४४ ॥ ' तथाहि-चेतनत्वभोक्तृत्वादिमिरपरिमितैर्धमैरन्विताः पुमांसोऽभीष्टाः, न च ते तथाविधैककारणपूर्वका भवद्भिरिष्यन्ते । अथापि स्याञ्चैतन्याद्यन्वितत्वं पुरुषाणां न मुख्यमिष्टम् , किं तर्हि ? गौणम् , यतोऽचैतन्यादिव्यावृत्ताः सर्व एव पुमांसस्तेनार्थान्तरल्यावृत्तिरूपा चैतन्यं जातिस्तदनुगामिनी कल्प्यते, नत्वेका तात्विकी साऽस्तीति । यद्येवं तदमुख्यम् , सुखाद्यन्वितत्वमसत्यपि तथाभूतैककारणपूर्वत्वे पुरुषवदिहापि व्यक्ते किमिति समम्-तुल्यं न कल्प्यते । तस्मादनैकान्तिको हेतुः । पुरुषाणामित्युपलक्षणम् । तथा सुखादयो मूलप्रकृत्यवस्थाभाविनो गुणत्वाचेतनत्वाभोकृत्वादिमिरन्विताः, धानपुरुषाश्च नित्यत्वादिभिर्युक्ताः, न च ते तथाभूतककारणपूर्वका इत्यनैकान्तिक एव ॥ ४४ ॥
एवं तावत्समन्वयादित्ययं हेतुः प्रतिषिद्धः । साम्प्रतं निगमनव्याजेन परिशिष्टहेतुदूषणार्थ दिमात्रमाह-प्रधानहेत्वभावेऽपीत्यादि ।
प्रधानहेत्वभावेऽपि ततः सर्व प्रकल्पते ।
शक्तभैदेन वैचित्र्यं कार्यकारणतादिकम् ॥ ४५ ॥ तत्र यत्तावदुक्तं "परिमाणाच्छक्तितः प्रवृत्तेः कार्यकारणभावाच्चास्ति प्रधान”मिति । एते त्रयोऽपि हेतवोऽनैकान्तिकाः, साध्यविपर्यये । बाधकप्रमाणानुपदर्शनात् । प्रधानाख्यस्य हेतोरभावेऽप्येषां परिमाणादीनामविरोधात् । तथाहि-यदि तावत्कारणमात्रस्यास्तित्वं साध्यते, तदा सिद्धसाध्यता, न ह्यस्माकं कारणमन्तरेण कार्यस्योत्पादोऽभीष्टः; कारणमात्रस्य च प्रधानमिति संज्ञाकरणे न किंचिद्वाध्यते । अथैवं साध्यतेअस्ति प्रेक्षावत्कारणम् , यदेतन्नियतपरिमाणं व्यक्तिमुत्पादयति, शक्तितश्च प्रवर्तत इति । तदाऽनैकान्तिकता, विनाऽपि हि प्रेक्षावता की स्वहेतुसामर्थ्यप्रतिनियमात्प्रतिनियतपरिमाणादियुक्तस्योत्पत्त्यविरोधात् । न चापि प्रधान प्रेक्षावद्युक्तं तस्याचेतनत्वात् । प्रेक्षायाश्च चैतन्यपर्यायत्वात् । किंच-शक्तितः प्रवृत्तेरित्यनेन यद्यव्यतिरिक्तशक्तियोगि कारणमात्रं साध्यते, तदा सिद्धसाध्यता । अथ व्यतिरिक्तविचित्र