SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ ३८ तन्त्वसङ्ग्रहः । तत्कारणमपि यथोक्तधर्मविशिष्टं सिध्येत् । यावता कार्यस्यानित्यत्वानेकत्वधर्मान्वयदर्शनात्तत्कारणमपि तथैवानुमीयते । नित्यस्य क्रमाक्रमाभ्यामर्थक्रियाविरोधात् । कारणभेदकृतत्वाश्च कार्यवैचित्र्यस्य । अन्यथा निर्हेतुकत्वप्रसङ्गात् । तस्मान्न नित्यैकरूपप्रधानसिद्धिः । यदि पुनरनित्यानेकरूप एव कारणं प्रधानमिति संज्ञा क्रियेत, तदा नास्ति विवाद इति भावः ॥ ४१ ॥ कस्मात्पुनरेकजात्यन्वितं व्यक्तं न भवतीत्याह - अयःशलाकाकल्पा- इत्यादि । अयःशलाकाकल्पा हि क्रमसङ्गतमूर्त्तयः । दृश्यन्ते व्यक्तयः सर्वाः कल्पनामिश्रितात्मिकाः ॥ ४२ ॥ यथा ह्ययोमय्यः शलाका: परस्परमसङ्गतास्तद्वदिमाः शब्दादिव्यक्तयः स्वस्वभाव - व्यवस्थिततया देशकालशक्तिप्रतिभासादिभेदान्न परस्परमन्वाविशन्ति । एतेनानेकत्वं प्रतिपादितम् । अनित्यत्वप्रतिपादनायाह — क्रमसङ्गतमूर्त्तय इति । उत्पादक्रमेण सङ्गता - समालिङ्गिता मूर्त्तिर्यासामिति विग्रहः । कथं तर्हि (क्षि) त्यादिनैकेन रूपेण तथा स एवायमिति च स्थिरेण स्वभावेनानुगता व्यवसीयन्ते भावा इत्याह- कल्पनामिश्रितात्मिका इति । मिध्याविकल्पोऽयमर्थेष्वेकात्मताग्रह इत्यर्थः । एतच्च पश्चात्प्रतिपादयिष्यते क्षणभङ्गादौ ॥ ४२ ॥ 1 एवं तावत्समन्वयादित्यस्य हेतोरसिद्धविरुद्धानैकान्तिकत्वं प्रतिपादितम्, अधुना कुटादिभेदवदिति दृष्टान्तस्य साध्यसाधनधर्मानन्वयत्वं प्रतिपादयन्नाह - मृद्विकारादय इत्यादि । मृद्विकारादयो भेदा नैकजात्यन्वितास्तथा । सिद्धा नैकनिमित्ताच मृत्पिण्डादेर्विभेदतः ॥ ४३ ॥ आदिशब्देन कनकादिविकाराणां च ग्रहणम् । तथेति दूषणान्तरसमुच्चये सादृश्ये 1 वा । नैकजात्यन्विता इत्यनेन साधनधर्मवैकल्यं दर्शितम् । नैकनिमित्ताश्चेति । सिद्धा इति प्रकृतेन सम्बन्धः । अनेन साध्यधर्मानन्वयो दर्शितः । ननु चैकं मृत्पिण्डकनकादि कारणं तेषां सिद्धमेव, तथा मृत्सुवर्णत्वादिजातिश्चैषामेषाऽनुगामिनी दृष्टा, तत्कथमुभयवैकल्यमित्याह — मृत्पिण्डादेर्विभेदत इति । नह्येकोऽवयवी मृत्पिण्डादिरस्ति, एकदेशावृतौ सर्वावरणप्रसङ्गात् । नाप्येका जातिः प्रतिव्यक्ति प्रतिभासभेदात् ॥ ४३ ॥
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy