________________
पलिकासमेतः। तथा हि कापिलयोगिनां पुरुषं प्रकृतिविभक्तं भावयतां पुरुषमालम्ब्य स्वभ्यस्तयोगानां प्रसादो भवति प्रीतिश्च । अजितयोगानां क्षिप्रतरमपश्यतां उद्वेगः, ये च प्रकृत्या जडमतयस्तेषां वरणमुपजायते । न चासौ पुरुषस्तद्रूपत्रिगुणात्मकोऽभीष्टः परैः । तस्मात्प्रसादतापदैन्यादिकार्योपलब्धेरित्यनैकान्तिकमेतत् । सङ्कल्पात्तानि प्रीत्यादीनि भवन्ति, न पुरुषादिति चेत् । एतच्छब्दादिष्वपि समानम् । ततश्च सङ्कल्पमात्रभावित्वे बाहाः सुखादयो न सिध्यन्ति । सङ्कल्पस्य संविद्रूपत्वात् । अत एव च बाह्यसुखाद्युपधानवशात्संवेदनस्य सातादिरूपत्वमित्येतदपि व्यभिचारि । अन्तरे. णापि बालविषयोपधानं पुरुषालम्बनेन प्रीत्यादीनामुत्पत्तिदर्शनात् । यश्चेष्टानिष्ठविकल्पादनपेक्षितबाह्यविषयसन्निधानं सुखादिसंवेदनं प्रसिद्धं तत्कथं परोपधानात्स्यात् । मनोऽपि त्रिगुणं तदुपधानाद्भवतीति चेत् । न । तस्यापि यदेव हि प्रकाशान्तरानपेक्षं खयं सिद्धमित्यादिना संविद्रूपत्वस्य प्रतिपादितत्वात् । तस्मात्समन्वयादित्यसिद्धो हेतुः ॥ ४०॥ इदानीं हेतुसिद्धिमभ्युपगम्यानैकान्तिकत्वं प्रतिपादयन्नाह-सिद्धेऽपीत्यादि ।
सिद्धेऽपि त्रिगुणे व्यक्ते न प्रधानं प्रसिध्यति ।
एकं तत्कारणं नित्यं नैकजात्यन्वितं हि तत् ॥ ४१ ॥ यदि नाम व्यक्तं त्रिगुणात्मकं सिद्धं तथापि तस्य यत्तदभीष्टं कारणं प्रधानाख्यं तन्न सिध्यति । तथाभूतेन कारणेन कचिदपि हेतोरन्वयासिद्धेरिति भावः । तथाहि
-त्रिगुणात्मकमेकं नित्यं व्यापि च तस्य कारणं साधयितुमिष्टम् । न चैवंभूतेन कारणेन कचिद्धतोः प्रतिबन्धः सिद्धः । नापि यदात्मकं कार्यमुपलभ्यते कारणेनावश्यं तदात्मना भवितव्यम् । कार्यकारणयोर्भेदात् । तथाहि-हेतुमत्त्वानित्यत्वाव्यापितादिमिर्धमैः समन्विते व्यक्ताख्यं कार्यमिष्यते भवद्भिः, नच तत्कारणस्य ताद्रूप्यमिष्टम् , तस्मादनैकान्तिको हेतुः। धर्मविशेषविपरीतभावनाद्विरुद्धोऽपीति दर्शयन्नाहएकं तत्कारणमित्यादि । एको नित्यत्रिगुणात्मकः कारणभूतो धर्मः साधयितुमिष्टः, स च तथाभूतो न सिध्यति, किं तर्हि, विपरीत इति भावः । कस्मादित्याह-नैकजात्यन्वितं हि तदिति । हिशब्दो हेतौ । तस्मात्तद्वयक्ताख्यं कार्य नैकया त्रिगुणात्मकया स्वात्मभूतया जात्या समन्वितं सिद्धम् । किं तर्हि ? अनेकत्वानित्यत्वादिधमान्वितमेवोपलभ्यते । यदि हि व्यक्तमेकया यथोक्तया जात्या समन्वितं भवेत्तदा