________________
तत्त्वसवहः ।
सर्वेषामेव हि तेषाममिन्नवस्तुविषयत्वानीलादिविषयसंवेदनवत्प्रत्येकं चित्रा संविअसज्येत । स्यादेतद्यद्यपि त्र्यात्मकं वस्तु, तथाऽप्यदृष्टादेर्धर्मादिलक्षणस्य सहकारिणो वशेन कस्यचित्किंचिदेव रूपं प्रतिभासते, न सर्व सर्वस्येति । आदिशब्देन भावनाजातिभेदजिघृक्षादीनां ग्रहणम् । यद्येवं न स्याद्वस्त्वनुयायिनी-वस्त्वालम्बना सा संविन प्राप्नोति, तदाकारशून्यत्वादिति भावः ॥ ३८ ॥ तदेव तदाकारशून्यत्वं दर्शयन्नाह-त्र्याकारमिति ।
त्र्याकारं वस्तुनो रूपमेकाकाराश्च तद्विदः ।
ताः कथं तत्र युज्यन्ते भाविन्यस्तद्विलक्षणाः ॥ ३९ ॥ सत्वरजस्तमसा रूपम् । एकाकाराश्च तद्विद इति । तेषां-पुरुषाणां विदः -संवित्तयः प्रत्येकमभिष्वङ्गादिमात्रैकरूपनियमादेकाकाराः संवेद्यन्त इत्यर्थः । ता इति-संविदः, तत्रेति-शब्दादौ, भाविन्य इति-पारमार्थिक्य इत्यर्थः। कस्मान्न युज्यन्त इत्याह-तद्विलक्षणा इति । तदालम्बनवस्तुविलक्षणा इत्यर्थः । प्रयोगःयद्यदाकारसंवेदनं न भवति न तत्तद्विषयं यथा चक्षुर्ज्ञानं न शब्दविषयम् । त्र्यात्मकवस्त्वाकारशून्याश्च यथोक्ताः संविद इति व्यापकानुपलब्धिरतिप्रसङ्गापत्तिविपर्यये बाधकं प्रमाणम् । स्यादेतद्यथा प्रत्यक्षेण गृहीतेऽपि सर्वात्मना शब्दादिके वस्तुनि भावनादिवशेन कचिदेव क्षणिकत्वादौ निश्चयोत्पत्तिर्भवति न सर्वत्र, तद्वदृष्टादिवशेनैकाकारा संविद्भविष्यतीति । तदेतदसम्यक् । न हि क्षणिकादिविकल्पस्यादि(ल्पास्पदे?)परमार्थतो वस्तुविषयत्वमस्माकमिष्टम् । सर्वविकल्पातीतत्वाद्वस्तुनः । पारम्पर्येण तु वस्तुनि प्रतिबन्धात्तथाविधवस्तुप्राप्तिहेतुतया तस्य प्रामाण्यम् । प्रीत्यादीनां तु परैर्वस्तुविषयत्वमेव परमार्थत इष्टम् । अन्यथा हि निरालम्बनत्वे सति सुखाद्यात्मनां शब्दादीनामनुभवात्सुखाद्यनुभवख्यातिरित्येतन्न स्यात् । तेषां च प्रीत्यादीनां सविकल्पकत्वादनिश्चितं न किंचिद्रूपमस्तीति सर्वात्मनानुभवख्यातिः स्यात् । इयमेव हि निश्चयानां स्वार्थप्रतिपत्तिर्यत्तनिश्चयनं नाम ॥ ३९ ॥
यत्रोक्तम् , “प्रसादतापदैन्यादिकार्योपलम्भात्सुखाद्यनुगतत्वं शब्दादीनां सिद्ध”मिति । तदुनैकान्तिकमिति दर्शयन्नाह-प्रसादोद्वेगेत्यादि ।
प्रसादोद्वेगवरणान्येकस्मिन्पुंसि योगिनाम् । जायन्ते न च तद्रूपः पुमानभिमतः परैः ॥ ४०॥