________________
पत्रिकासमेतः। कस्मात् ? सुखादीनां स्वसंविदा-खसंवेदनस्य व्यक्तत्वात् । अतिस्पष्टेयं सुखप्रीतिसापादिरूपेण सत्यसति वा शब्दादिविषयसन्निधाने प्रकाशान्तरनिरपेक्षा स्वयंप्रकाशात्मलक्षणा स्वसंवित्तिः । यदेव हि प्रकाशान्तरनिरपेक्षं सातादिरूपतः स्वयं सिद्धम् , तचैतन्यं सुखं संवेदनं ज्ञानमित्यादिमिः पर्यायैः कथ्यते । यदि च सुखादीनामन्येन संवेदनेनानुभवादनुभवख्यातिः स्याचदा तेषां संवेदनमसातादिरूपं स्यात् , स्वयमतदात्मकत्वात् । यथा योगिनोऽनुमातुश्च परकीयं सुखादि संवेदयतः । अन्यथा तेऽपि योग्यादयः साक्षात्सुखाद्यनुभाविन इवातुरादयः स्युः । योग्यादिवद्वाऽन्येषामप्यनुप्रहोपघातौ न स्यातामविशेषात् । संवेदनस्य च साताविरूपत्वेऽभ्युपगम्यमाने सिद्धं सुखादेः संविद्रूपत्वम् । इदमेव हि नः सुखं दुःखं च, यत्सातमसातं च संवेदनम् । तस्मानानैकान्तिकता हेतो प्यसिद्धता । बाह्यार्थवादिनां सर्वेषामेव शब्दादिषु संविदूपरहितत्वस्य सिद्धत्वात् । अन्यथा विज्ञानवादिमतमेवाङ्गीकृतं स्यात् । तच्चेष्टमेव । नापि विरुद्धता हेतोः पक्षे भावात् ॥ ३६॥
स्यादेतत्-यथा बहिरवस्थितनीलादिसन्निधानादनीलादिरूपमपि संवेदनं नीलादिरूपनिर्भासं भवति, तथा बाह्यसुखाद्युपधानवशादसातादिरूपमपि सातादिरूपमिव लक्ष्यते, तेन संवेदनस्य सातादिरूपत्वेऽपि न सुखादीनां संविद्रूपत्वं सिध्यत्यतो नैकान्तिकता मौलस्य हेतोरित्याशङ्कयाह एकत्रेत्यादि ।
एकत्रैव च शब्दादौ भावनाजातिभेदतः।
सङ्गादयः संभविनो लक्ष्यन्ते नियताः स्फुटम् ॥ ३७॥ भावनाजातिभेदत इति । भावना:--अभ्यासाः, जातिस्तु-निजा प्रकृतिः, तयोर्भेदो-विशेषः । सङ्गादय इति । सङ्गोऽभिलाषः, आदिशब्देन प्रीत्यादयो द्वेपोद्वेगादयो दैन्यावरणादयश्च त्रैगुण्यकार्यगणा गृह्यन्ते । नियता इति चैकाकाराः । तथाहि भावनाविशेषान्मद्याङ्गनादिषु भावितशुभाशुभादिनिमित्तानां कामुकादीनाम्, जातिविशेषाञ्च कुरङ्गकरभादीनां केषांचिदेव प्रतिनियताः प्रोत्यादयः सम्भवन्ति । न सर्वेषाम् , एतच्च शब्दादीनां सुखादिरूपत्वे सति न युक्तम् ॥ ३७ ॥ कस्मादित्याह-एकवस्त्वनुपातित्व इत्यादि।
एकवस्त्वनुपातित्वे चित्रा संवित्प्रसज्यते । अदृष्टादिवशानो चेन्न स्याद्वस्त्वनुयायिनी ॥ ३८ ॥