________________
३४
तत्त्वसङ्ग्रहः ।
कारणे कार्यमस्तीति यदुच्यते भवद्भिस्तत्र कोऽर्थोऽभिप्रेतः । किं व्यक्तिरूपेण ? तन्न । क्षीराद्यवस्थायामपि ध्यादीनां पश्चाद्वदुपलब्धिप्रसङ्गात् । अथ शक्तिरूपेण ? वथाऽपि यत्तच्छक्तिरूपं दध्यादेः कार्यरूपादुपलब्धिलक्षणप्राप्तादन्यत् , आहोखित्तदेव। यदि तदेव तदा पूर्ववदुपलब्धिप्रसङ्गः ॥ ३४ ॥
अन्यचेत्कथमन्यस्य भावेऽभत्त्यान्यदुच्यते।
नहि सत्वस्य सद्भावः सद्भावो दुःखमोहयोः ॥ ३५ ॥ अथान्यदिति पक्षः, तदा कारणात्मनि कार्यमस्तीति पक्षस्यक्तो भवेत् ; कार्यव्यतिरिक्तस्य शत्त्याख्यस्य पदार्थान्तरस्य भावाभ्युपगमात् । तथाहि-यदेवाविर्भूतं विशिष्टरसवीर्यविपाकादिगुणोपेतं रूपं तदेव दध्यादिकं कार्यमुच्यते । तश्च क्षीरावस्थायामुपलम्भयोग्यस्यानुपलब्धेरसद्व्यवहारविषयः । यच्चान्यदस्ति शक्तिरूपं सत्कार्थमेव न भवति । न चान्यस्य भावेऽन्यदस्त्यतिप्रसङ्गात् । ननु चायुघृतम् , नड्डलोदकं पादरोग, इत्यन्यस्य सद्भावेऽन्यदुच्यमानं दृष्टमेवेत्याह-अभक्त्येति । अभत्या-अनुपचारेणेत्यर्थः । कारणे हि कार्योपचारादायुघृतमित्युच्यते । न मुख्यतः। यदि तु भवताऽप्युपचारात्कारणे कार्यमस्तीत्युच्यते, तदा न कश्चिद्विरोधः । मुख्यतस्तु विरोध उच्यते । एतदेव दृष्टान्तेनोपपादयन्नाह नहीत्यादि । नहि यदेव सत्वरूपं तदेव दुःखमोहयोर्भवद्भिर्व्यवस्थाप्यते, तेषां परस्परं भिन्नलक्षणव्यवस्थानात् ॥ ३५ ॥
साम्प्रतं भेदानामन्वयदर्शनादित्यस्य हेतोरसिद्धत्वं प्रतिपादयन्नाह-सत्वाद्यनु. गतमित्यादि ।
सत्वाद्यनुगतं व्यक्तं न सिद्धं नः कथंचन ।
आन्तरत्वात्सुखादीनां व्यक्तत्वात्तत्वसंविदः ॥ ३६॥ शब्दादिलक्षणं व्यक्तम्-सुखादिरूपम् , न:-अस्माकमसिद्धम् । कस्मात् ? सुखादीनामान्तरत्वात्-संविद्रूपत्वात् । शब्दादीनां चाचेतनत्वात्कथमेते सुखाद्यन्विता भवेयुः । प्रयोगः-ये संविद्रूपा न भवन्ति न ते सुखादिमयाः, यथा परो. पगतोऽचेतनः पुरुषः । संविद्रूपरहिताश्च शब्दादय इति व्यापकानुपलब्धिः । स्यादेतत्संविद्रूपत्वेन सुखादिमयत्वस्य यदा व्याप्तिः सिद्धा भवेत्तदा तन्निवर्तमानं शब्दादिषु सुखादिमयत्वं निवर्तयेद्यावता सैव न सिद्धा, पुरुषस्यैव संविद्रूपत्वेनेष्टत्वादित्यत आह-व्यकत्वात्तत्स्वसंविद इति । तत्-संविद्रूपत्वं सुखादीनां सिद्धम्