________________
पलिकासमेतः। उत्पादो वस्तुभावस्तु सोऽसता न सता तथा ।
सम्बध्यते कल्पिकया केवलं स्वसता धिया ॥३२॥ तुशब्दोऽवधारणार्थः । वस्तूनां पूर्वापरकोटिशून्यक्षणमात्रावस्थायी स्वभाव एवो. त्पाद इत्युच्यते । भेदान्तरप्रतिक्षेपेण तन्मात्रजिज्ञासायाम् । नतु वैभाषिकविकल्पिता जातिः संस्कृतलक्षणम् । तस्याः प्रतिषेत्स्यमानत्वात् । नापि वैशेषिकपरिकल्पितः सत्तासमवायः स्वकारणसमवायो वा, तयोरपि निषेत्स्यमानत्वात् । परमतेन च तयोनित्यत्वात् । नित्यस्य च जन्मानुपपत्तेः । यथोक्तम्-"सत्ताखकारणाश्लेषकरणाकारणं किल । सा सत्ता स च सम्बन्धो नित्यो कार्यमथेह किम् ॥” इति । स एवमात्मक उत्पादो नासता तादात्म्येन सम्बध्यते । सदसतोर्विरोधात् । नासद्भवति । नापि सता पूर्वभाविना सम्बध्यते । तस्य पूर्वमसत्वात् । कथमिदानीमसत्कार्यवादिनो यूयमित्याह-कल्पिकयेत्यादि । कल्पिकया धिया कर्तृभूतया करणभूतया वा, केवलमसता क; सम्बध्यते-सम्बन्धमुपनीयत इत्यर्थः । नासन्नाम किंचिदस्ति यदुत्पत्तिमाविशेत् , किं तु काल्पनिकोऽयं व्यवहारो यदसदुत्पद्यत इति यावत् ॥ ३२॥ किं पुनरिह कल्पनाया बीजं येनायमेवं व्यवहार इष्यत इत्याह-यदिदमित्यादि।
यदिदं वस्तुनो रूपमेकानन्तरमीक्ष्यते।
प्रागासीन्नेति तबीजं प्राग्भूते विदमस्ति न ॥ ३३ ॥ यदेतदेकस्य प्रतिनियतस्य कस्यचित्पदार्थस्यानन्तरमदृष्टपूर्व वस्तुरूपमुपलभ्यते, तन्मध्यावस्थातः प्राङ्नासीत्, उपलब्धिक्षणप्राप्तस्यानुपलब्धेः । तस्मादिदं प्रागससमुत्पद्यत इत्यस्याः कल्पनाया बीजम् । कस्मादित्याह-प्राग्भूत इत्यादि । मध्यावस्थातः प्राक् , मध्यावस्थातद्भूते विद्यमाने सति वस्तुरूपे, नास्तीदं कल्पनानिबन्धनमुत्पद्यत इति । तथाहि-उत्पद्यत इत्यनेन मध्यावस्थभाव्येव प्रतिनियतं स्वरूपमुच्यते । यदिच तस्य प्रागपि भावः स्यात्तदा तस्य मध्यावस्थाभाव्येवेति यदेतन्नियतं स्वरूपं तस्य हानिः स्यात् । आकाशवत्सर्वदाऽवस्थितस्य पूर्वापरमध्यावस्थाभावात् । ततश्च सर्वदा सर्वमुत्पद्यत इत्येवं व्यपदिश्येत, विशेषाभावात् ॥ ३३ ॥ पुनरपि सत्कार्यवादं प्रकारान्तरेण दूषयन्नाह-क्षीरादिषु चेत्यादि ।
क्षीरादिषु च दध्यादि शक्तिरूपेण यन्मतम् । का शक्तिस्तत्र दध्यादि यदि दृश्येत दुग्धवत् ॥ ३४ ॥