________________
३२
तत्त्वसङ्ग्रहः ।
णम् । (कारणं गृह्यते ) कारणमपि वस्तूनां नाम न भवत्येव, तदन्तरेणापि वस्तुसम्भवात् । अत्र कारणमाह — विकल्पा इत्यादि । यत् - यस्मात्, नामसंसर्गभाजो विकल्पा वाचकाश्च शब्दा विश्वकल्पाः – नानाप्रकाराः, अभेदिनि --- निरंशैकस्वभाववस्तुनि यथाभ्यासं वर्त्तन्ते । तथाहि — एक एव शब्दादिर्भावो नित्यादिरूपेण भिन्नसमयस्थायिभिः प्रवादिभिर्विकल्प्यते व्यपदिश्यते च । तेषां च शब्दविकल्पानां तादात्म्ये तद्विषयत्वे वा वस्तुनश्चित्रत्वं प्राप्नोति । वस्तुस्वरूपवदेव वा शब्दविकल्पानामेकरूपत्वप्रसङ्गः । नह्येकं चित्रमिति युक्तमतिप्रसङ्गात् । तस्माच्छक्तिप्रतिनियमात्किंचिदेवासत्क्रियते न सर्वमित्यतो नैरूप्यादित्यनैकान्तिकोऽपि हेतुः । अतएवोपादानग्रहणादित्यादिकस्य हेतुचतुष्टयस्यानैकान्तिकत्वम् । तथाहि यदि कार्यसत्ताकृतमेव प्रतिनियतोपादानग्रहणं क्वचित्सिद्धं स्यात्तदैतत्स्यात् । यावता कारणशक्तिनिय - मकृतमपि नियतोपादानग्रहणं युज्यत एव । कारणशक्तिप्रतिनियमादेव च न सर्वस्य सर्वस्मात्सम्भवः, सर्वस्य सर्वार्थक्रियाकारित्वस्वभावासम्भवात् । यत्पुनरुक्तमकार्यातिशयं यत्वित्यादि तदप्यभिप्रायापरिज्ञानादुक्तम् । नह्यस्माभिरभावः क्रियत इत्यमि
ते । येन विकृतौ सत्यां तस्य स्वभावहानिप्रसङ्गः स्यात् । किंतु वस्त्वेव क्रियत इति पूर्वं प्रतिपादितम् । तच्च वस्तु उपलब्धिलक्षणप्राप्तस्यानुपलब्धेर्निष्पन्नस्य च कार्य - त्वानुपपत्तेः प्रागुत्पादादसदित्युच्यते, यस्य च कारणस्य सन्निधानमात्रेण तत्तथाभूतमुदेति तेन तक्रियत इति व्यपदिश्यते, नतु व्यापारसमावेशात्केनचित्किंचिक्रियते, निर्व्यापारत्वात्सर्वधर्माणाम् । नाप्यसन्नाम किंचिदस्ति, यद्विक्रियते, न वा वस्तुस्वभावः, प्रतिषेधमात्रलक्षणत्वादसत्वस्य । अपिच यद्यकार्यातिशयत्वादसन्न क्रियत इत्यभिधीयते । सदपि च स्वभावनिष्पत्तेरकार्यातिशयमेवेति तत्कथं क्रियते । तस्माच्छक्तस्य शक्यकरणादित्येषोनैकान्तः । असत्कार्यवादे च कारणभावस्य युज्यमानत्वात्कारणभावादित्ययमप्यनैकान्तिकः । यद्वा पूर्व सतः कार्यत्वासम्भवस्य प्रतिपादितत्वात्, असत्कार्यवाद एव चोपादानग्रहणादिनियमस्य युज्यमानत्वात्, उपादानग्रहणादित्यादेर्हेतुचतुष्टयस्य विरुद्धता; साध्य विपर्ययसाधनात् ॥ ३९ ॥
ननु यद्यसदेवोत्पद्यत इति भवतां मतं तत्कथं सूत्रे सदसतोरुत्पादः प्रतिषिद्धः । यथोक्तम्, “अनुत्पन्ना महामते सर्वधर्माः, सदसतोरनुत्पन्नत्वात्” इति अत्राहउत्पाद इत्यादि ।