________________
पञ्जिकासमेतः ।
३१ मायातत्वात्तथाभूतस्वभावभेदप्रतिनियमस्येत्यविरुद्धम् । अभेदे त्वेकस्यैकस्मिन्नेव काले हेतुत्वमहेतुत्वं च परस्परविरुद्धं कथं सम्भाव्यते । विरुद्धधर्माध्यास निबन्धनत्वाद्वस्तुभेदस्य । तथाचाह — "भेदे हि कारणं किंचित् वस्तुधर्मतया भवेत् । अभेदे तु निरुध्येते तस्यैकस्य क्रियाक्रिये ॥” इति ॥ २८ ॥
•
अवधीनामित्यादिना परः शक्ति (त्य ? ) नियमं सम्भावयन्प्रत्यवतिष्ठते— अवधीनामनिष्पत्तेर्नियतास्ते न शक्तयः ।
सत्वे तु नियमस्तासां (युक्तः) सावधिको न नु ॥ २९ ॥
1
त इति तव बौद्धस्यासत्कार्यवादिनः, न कारणानां नियताः शक्तयो घटन्ते । कस्मात् ? अवधीनां कार्यभूतानामनिष्पत्तेः । नह्यवधिमन्तरेणावधिमतोऽस्ति सद्भावः प्रयोगः । ये सद्भूतकार्यावधिशून्या न ते नियतशक्तयो यथा शशविषाणादयः, सद्भूतकार्यावधिशून्याश्च शालिबीजादयो भावा इति व्यापकानुपलब्धिः । स्वपक्षस्य सौस्थित्यं दर्शयन्नाह - सत्व इति । कार्याणां सद्भावे सतीत्यर्थः । तासामिति शतीनाम् ॥ २९ ॥
1
नैवमित्यादिना हेतोरनैकान्तिकतामाह
नैवं तेषामनिष्पत्त्या माभूच्छब्दस्तथापरम् । सर्वोपाधिविविक्तस्य वस्तुरूपस्य न क्षतिः ॥ ३० ॥
तथाहि —- तेषामवधीनामनिष्पत्तौ यदि परं क्षीरस्य दध्युत्पादने शक्तिरित्येष व्यपदेशो माभूत्, यत्पुनस्तथाविधं सर्वोपाधिशून्यमध्यारोपितं वस्तु यदनन्तरमह - ष्टपूर्वं वस्त्वन्तरमुदेति, तस्याप्रतिषेध एव ॥ ३० ॥
स्यादेतद्यत्र शब्दविकल्पानामप्रवृत्तिस्तत्र वस्तुस्वभावोऽपि निवर्त्तत एवेत्याह-न नामरूपमित्यादि ।
न नाम रूपं वस्तूनां विकल्पा वाचकाश्च यत् । विश्वकल्पाः प्रवर्त्तन्ते यथाऽभ्यासमभेदिनि ॥ ३१ ॥
स्वभाव एव हि व्यापको निवर्त्तमानः स्वं व्याप्यं निवर्त्तयति, कारणं वा कार्य, प्रतिबन्धसद्भावात् । नत्वन्योऽतिप्रसङ्गात् । नच क्षीरस्य दनि शक्तिरित्येवमादिनामव्यपदेशो वस्तूनां रूपं स्वभावो भवति । येन तन्निवर्तमानं तथाविधं वस्तु निवर्त्त - येत् । नामग्रहणमुपलक्षणम् । विकल्पोऽपि तत्संसृष्टो गृह्यते । रूपग्रहणं चोपलक्ष