________________
तत्त्वसङ्ग्रहः ।
वर्त्तते । सत्कार्यवादपक्षे च न किंचिदप्राप्यमहेयं वास्तीति निरीहमेव जगत्स्यात् , अन्ततस्सर्वन्यवहारोच्छेदप्रसङ्गः ॥२७॥ • एवं तावत्सत्कार्यवादं निराकृत्यासत्कार्यवादपक्षभाविनो दोषान्परिहर्तुमाह-त्रै. गुण्यस्येत्यादि ।
त्रैगुण्यस्याविभेदेऽपि न सर्व सर्वकारकम् ।
यद्वत्तद्वदसवेऽपि न सर्व सर्वकारकम् ॥ २८॥ सत्कार्यनिषेधादेव सामर्थ्यादसत्कार्यमिति सिद्धमेव, सदसतोरन्योन्यपरिहारस्थितलक्षणत्वेन प्रकारान्तरासम्भवात् । तथाऽपि परोपन्यस्तस्य दूषणस्य दूषणाभासताप्रतिपादनायोच्यते । तत्र यत्तावदुक्तम् “कर्तु तन्नैव शक्येत नैरूप्या"दिति, तद्सिद्धम् , वस्तुखभावस्यैव क्रियमाणत्वाभ्युपगमात् । तस्य च वस्तुस्वभावस्य नीरूपत्वासिद्धेः । प्रागुत्पत्तेस्तनिःस्वभावमेवेति चेन्न । तस्यैव निःस्वभावत्वायोगात् । नहि खभाव एव निःस्वभावो युक्तः, वस्तुस्वभावप्रतिषेधलक्षणत्वानिःस्वभावत्वस्य । नचाप्युत्पादात्प्राक् तदस्ति । क्रियमाणं वस्तु येन तदेव निःस्वभावं सिद्ध्येत् । अथ वस्तुविरहलक्षणमेव नीरूपं धर्मिणं पक्षीकृत्य नैरूप्यादिति हेतुः क्रियते, तदा सिद्धसाध्यता । नहि वस्तुविरहः केनचिक्रियमाणतयाऽभ्युपगतः । अपि च नैकान्तिकोऽपि हेतुः । विपक्षे बाधकप्रमाणानुपदर्शनात् । यतः कारणशक्तिप्रतिनियमात्किंचिदेवासस्क्रियते यस्योत्पादकं कारणमस्ति, यस्य तु वियदब्जादेर्नास्ति कारणं तन्न क्रियत इत्यनेकान्त एव । नहि सर्व सर्वस्य कारणमिष्टम् । नापि यद्यदसत्तत्तक्रियत एवेति व्याप्तिरिष्टा । किंतर्हि ? । यक्रियते तत्प्रागुत्पत्तेरसदेवेति । स्यादेतत्तुल्येप्यसत्कारित्वे कारणानां किमिति सर्व सर्वस्यासतः कारणं न भवतीति । तदेतद्भवतोऽपि समानं चोद्यम् , तुल्ये हि सत्कारित्वे किमिति सर्व सर्वस्य सतः कारणं न भवतीति । नच भवतां मतेन किंचिदसदस्ति येन तन्न क्रियेत । कारणशक्तिप्रतिनियमात्सदपि श. शविषाणादि न क्रियत इति चेत् । तदितरत्रापि समानम् । अपिच यथा भवतां त्रैगुण्यस्य सर्वत्राविशेषेऽपि न सर्व सर्वकारकं भवति, शक्तिप्रतिनियमात् । सर्वस्य कारकं सर्व वा कारकमस्येति विप्रहः । तद्वदसत्वेपि कार्यस्यान्वयिनो वा कस्यचिदूपस्य न सर्व सर्वकारकं भविष्यति । एतचाभ्युपगम्योक्तं यद्वत्तद्वदिति । न पुनः साम्यमिति । तथाहि-सत्यपि भेदे कस्यचित्कश्चिदेव हेतुर्मबति । स्वहेतुपरम्परास