________________
पलिकासमेतः।
. २९ ण्यपेक्षानुपपत्तेः । उपकारित्वे वा पूर्ववदोषोऽनवस्था च । अपिच योऽसावतिशयः पृथग्भूतः क्रियते स किमसन्नाहोस्वित्सन्निति विकल्पद्वयमत्राप्यवतरत्येव । तत्रासत्वे पूर्ववत्साधनानामनैकान्तिकतापत्तिः । सत्वे च साधनवैयर्थ्यम् । तत्राप्यमिव्यक्ताविप्यमाणायां केयममिव्यक्तिरित्यनवस्थाप्रसङ्गो दुर्निरिः । तस्माद्यतिरेकपक्षेऽप्यसजतेरसम्बन्धान रूपातिशयोत्पत्तियुज्यते ॥ २६ ॥
न तद्विषयसंवित्तिोंपलम्भावृतिक्षयः।
नित्यवादुपलम्भस्य द्वितीयस्थाप्यसंभवात् ॥ २७ ॥ नापि तद्विषयज्ञानोत्पत्तिलक्षणामिव्यक्तिर्युक्ता, नित्यत्वात्तद्विषयायाः संवित्तेः । तथाहि-याऽसौ तद्विषया संवित्तिः सा भवतः सत्कार्यवादिनो मतेन नित्यैवेति किं तस्या उत्पाद्यं ( उत्पाद्यत्वं? ) स्यात् । द्वितीयस्योपलम्भस्यासंभवाच्च न तद्विषयज्ञानोत्पत्तिलक्षणामिव्यक्तिर्युक्ता । अपिशब्दः समुच्चये, भिन्नक्रमश्च, असम्भवादित्यस्थानन्तरं द्रष्टव्यः । तेनैतदुक्तं भवति । एकैव भवतां मतेन संवित् , आसर्गप्रलया. देका बुद्धिरिति सिद्धान्तात् , सैव च निश्चयः, तत्र कोऽपरस्तदुपलम्भोऽभिव्यत्याख्योऽस्ति, यः साधनैः क्रियेत । स्यादेतत् , न बुद्धिखभावा तद्विषयसंवित्तिः, किं तर्हि ? । मनःस्वभावेति । तदसम्यक् , बुद्धिरुपलब्धिरध्यवसायो मनःसंवित्तिरित्यादीनामनन्तरत्वात् । एतच्च पश्चान्निवेदयिष्यते । नापि तद्विषयोपलम्भावरणक्षयलक्षणाभिव्यक्तिः, अतएव कारणद्वयात् । तथाहि-यत्तदुपलम्भावरणं तस्य नित्यत्वान्न क्षयः सम्भवति । नापि तिरोभावलक्षणः क्षयो युक्तः, अत्यक्तपूर्वरूपस्य तिरोभावासम्भवात् । द्वितीयस्य चोपलम्भस्यासम्भवानोपलम्भावरणमस्ति । नबसत आवरणं युक्तम् , वस्तुसद्विषयत्वात्तस्य । तस्मान्न तत्क्षयो युक्तः । अथवा-नित्यत्वा. दिति तद्विषयायाः संवित्तेनित्यत्वान्नावरणं सम्भवति तदसम्भवान्न आयो युक्त इत्यर्थः । न चाप्यावरणक्षयः केनचिक्रियते । तस्य निःस्वभावत्वात् । न केवलं सकार्यवादपक्षे साधनप्रयोगवैयर्थ्यम् , बन्धमोक्षाभावप्रसङ्गः सर्वलोकव्यवहारोच्छेदप्रसङ्गश्वानिवार्यः । तथाहि-प्रधानपुरुषयोः कैवल्योपलम्भलक्षणस्य तत्वज्ञानस्योत्पत्तौ सत्यां मोक्षो भवद्भिरिष्यते । तच्च तत्वज्ञानं सर्वदावस्थितमेवेति मुक्ताः सर्व एव देहिनः स्युः, अतो न बन्धः । मिथ्याज्ञानवशाच बन्ध इष्यते तस्य च सर्वदाऽवस्थितत्वेन सर्वदा सर्वेषां बद्धत्वाकुतो मोक्षः, लोकश्च हिताहितप्राप्तिपरिहारार्थ प्र