________________
तत्वसङ्ग्रहः
अयस्यासत उत्पत्तिरङ्गीकृता भवेत् । सत्कार्यमिति च प्रतिज्ञया सा निषिद्धेति स्वव
चनव्याघातः ॥ २४ ॥
२८
अथाऽपि निश्चयोऽभूतस्समुत्पद्येत साधनात् । ननु तेनैव सर्वेऽमी भवेयुर्व्यभिचारिणः ॥ २५ ॥
अथ माभूत्साधनप्रयोगवैयर्थ्यमिति । निश्चयोऽभूतोऽसन्नेव साधनादुत्पद्यत इत्यङ्गीक्रियते । एवं तर्हि, असदकरणादित्यादेर्हेतुगणस्य समस्तस्यैवानैकान्तिकता प्राप्रोति, निश्वयवदसतोऽप्युत्पत्त्यविरोधात् । ततश्च यथा निश्चयस्यासतोऽपि करणं तन्निष्पत्तये च यथा विशिष्टसाधनपरिग्रहः, यथा च तस्य न सर्वस्मात्साधनाभासादे: संयथा चासावसन्नपि शक्तैर्हेतुभिः क्रियते, तत्रच यथा हेतूनां कारणभावोऽस्ति, तथाऽन्यत्रापि भविष्यति ॥ २५ ॥
भवः,
अव्यक्तो व्यक्तिभाक्तेभ्य इति चेद्व्यक्तिरस्य का । न रूपातिशयोत्पत्तिरविभागादसङ्गतेः ॥ २६ ॥
अथापि स्याद्यद्यपि प्राक्साधनप्रयोगात्सन्नेव निश्चयः, तथापि न साधनवैयर्थ्यम्, यतः प्रागनभिव्यक्तोऽसौ पश्चात्तेभ्यः साधनेभ्योऽमिव्यक्तिमासादयति । तस्मादभिव्यक्त्यर्थं साधनानि व्याप्रियन्त इति नानर्थक्यमेषामिति । तदेतदयुक्तम् । व्यक्तेरसिद्धत्वात्तथाहि व्यक्तिः स्वभावातिशयोत्पत्तिर्वा भवेत्, यद्वा तद्विषयं ज्ञानम्, तदुपलम्भावरणापगमो वा । तत्र न तावत्स्वभावातिशयोत्पत्तिः । तथाहिअसौ स्वभावातिशयो निश्चयस्वरूपादपृथग्भूतो वा, पृथग्भूतो वा । यद्यपृथग्भूतस्तदा तस्य निश्चयादविभागादपृथक्त्वान्निश्चयस्वरूपवत्सर्वदैवावस्थितेर्नोत्पत्तिर्युक्ता । अथ पृथग्भूतः, एवमपि तस्यासाविति सम्बन्धानुपपत्तिः । तथाहि — आधाराधेयलक्षणो वा सम्बन्धो भवेत् जन्यजनकभावलक्षणो वा । न तावदाद्यः परस्परानुपकार्योपकारकयोस्तदसंभवात् । उपकारे वा तस्याप्युपकारस्य व्यतिरेकित्वे सम्बन्धासिद्धेरनवस्थाप्रसङ्गात् । अव्यतिरेकित्वे च साधनप्रयोगवैयर्थ्यम्, निश्चयादेवोपकाराव्यतिरिक्तस्यातिशयस्योत्पत्तेः । अमूर्त्तत्वाच्चातिशयस्याधः प्रसर्पणासंभवान्न तस्य कचिदाधारो युक्तः, अधोगतिप्रतिबन्धकत्वेनाधारस्य व्यवस्थानात् । नापि जन्यजनकभावलक्षणः, सर्वदैव निश्चयाख्यस्य कारणस्य सन्निहितत्वान्नित्यमविशयोत्पत्तिप्रसङ्गात् । नच साधनप्रयोगापेक्षया निश्चयस्यातिशयोत्पादकत्वं युक्तम् । अनुपकारि
"