________________
पलिकासमेतः। यैव तेषां प्रेक्षावद्भिः परिग्रहात् । नियतादेव क्षीरादेर्दध्यादीनां जन्मेत्येतदपि न प्राप्नोति, साध्यस्यासंभवादेव । एतच्च सर्वसंभवाभावादित्येतस्य समर्थनम् । तथाहिसर्वस्मात्संभवाभाव एव नियताजन्मेत्युच्यते, तञ्च सत्कार्यवादपक्षे साध्याभावान युज्यते । तथा शक्तस्येति शक्यकरणमित्येतदपि द्वयं न युज्यते । साध्यस्यामावादेव । यदि हि केनचित्किंचिदभिनिवर्येत तदा निर्वर्तकस्य शक्तिर्व्यवस्थाप्यते । निवर्त्यस्य च करणं सिध्येत् । नान्यथा । तदर्शयति नच शक्तिर्नच क्रियेति ॥ २१ ॥
कारणभावोऽपि पदार्थानां न युक्तः, साध्यभावादेव । तदर्शयति-सर्वात्मनेत्यादि ।
सर्वात्मना च निष्पत्तेने कार्यमिह किंचन ।
कारणव्यपदेशोऽपि तस्मान्नैवोपपद्यते ॥ २२॥ एतच्च कारणभावादित्येतस्य हेतोः समर्थनम् । नचैवं भवति, तस्मान्न सत्कार्यमिति सर्वहेतुषु प्रसङ्गप्रायो योज्यः ॥ २२ ॥ भूयः प्रकारान्तरेण सत्कार्यवादं दूषयन्नाह-सर्व चेत्यादि ।
सर्व च साधनं वृत्तं विपर्यासनिवर्तकं ।
निश्चयोत्पादकं चेदं न तथा युक्तिसङ्गतम् ॥ २३ ॥ वृत्तमिति । प्रवृत्तम् । विपर्यासग्रहणेन संशयोऽपि गृह्यते, तस्योभयांशावलम्बेनारोपकत्वसंभवात् । सर्वमेव हि साधनं स्वविषये प्रवृत्तं द्वयं करोति । प्रमेयार्थविषये प्रवृत्तौ संशयविपर्यासौ निवर्तयति, निश्चयं च तद्विषयमुत्पादयति । तदेतत्सत्कार्यवादे युक्त्या न सङ्गच्छते ॥ २३ ॥ कथमित्याह न सन्देहेत्यादि।
न सन्देहविपर्यासौ निवत्यौं सर्वदा स्थितेः ।
नापि निश्चयजन्मास्ति तत एव वृथाऽखिलम् ॥ २४ ॥ तथाहि-सन्देहविपर्यासौ भवतां मतेन चैतन्यात्मकौ वा स्यातां बुद्धिमनःस्वभावौ वा । पक्षद्वयेऽपि न तयोनिवृत्तिः संभवति । चैतन्यबुद्धिमनसां नित्यत्वेन वयोरपि नित्यत्वात् । नापि निश्चयोत्पत्तिः साधनात्संभवति । तत एव सर्वदा स्थितेः कारणात् । तस्माघदेतत्साधनमुक्तं भवता तदखिलं सर्वमेव वृथा । एतेन स्ववचनविरोध उद्भावितो भवति । तथाहि-निश्चयोत्पादनाय साधनं अवता नि.
*