________________
तत्त्वसङ्ग्रहः।
अविद्यमानसाध्यश्वामिमतः पदार्थ इति व्यापकानुपलब्धिः । एतच द्वयमपि प्रसङ्गसाधनमतो नोभयसिद्धोदाहरणेन किंचित् । यस्तु मन्यते सायः पुरुषस्यापि प्रतिबिम्बोदयन्यायेन भोगं प्रति कर्तृत्वमस्तीति । तं प्रत्येवं व्याख्या । परश्वासावात्मा च-मुक्त इत्यर्थः । तस्य हि मुक्तत्वाद्भोगं प्रत्यपि कर्तृत्वं नास्तीति नोदाहरणासिद्धिः ॥ १८॥ अथेत्यादिना परमते हेत्वोरसिद्धिमाशङ्कते ।
अथास्त्यतिशयः कश्चिदभिव्यक्त्यादिलक्षणः ।
यं हेतवः प्रकुर्वाणा न यान्ति वचनीयताम् ॥ १९॥ तत्र यदि प्रथमो हेतुः सर्वात्मनाऽभिव्यक्त्यादिरूपेणापि सत्वादिति सविशेषणः क्रियते, तदा न सिद्ध्यति । नास्माभिरभिव्यक्त्यादिरूपेणापि सत्वमिष्यते कार्यस्य । किं तर्हि १ । शक्तिरूपेण । अथ सामान्येन निर्विशेषणस्तदाऽनैकान्तिकः, यस्मादमिव्यत्यादिलक्षणस्यातिशयस्योत्पद्यमानत्वात् , न सर्वस्य कार्यत्वप्रसङ्गो भविष्यति । अतएव द्वितीयोऽपि हेतुरसिद्धः, साध्यस्य विद्यमानत्वात् । अभिव्यक्त्यादिलक्षण इति । आदिशब्देनोद्रेकाद्यवस्थाविशेषपरिग्रहः । यमिति-अतिशयम् । वचनीयतामिति वाच्यताम् । नामिमतो हेतुरसाध्यत्वादित्यादिर्दोषो न भवतीति यावत् ॥ १९॥ प्रागासीदित्यादिना प्रतिविधत्ते
प्रागासीद्यद्यसावेवं न किंचिहत्तमुत्तरं ।
नो चेत्सोऽसत्कथं तेभ्यः प्रादुर्भावं समश्नुते ॥ २० ॥ तत्र विकल्पद्वयम् , कदाचिदसावतिशयोऽभिव्यक्त्याद्यवस्थातः प्राक् प्रकृत्यवस्थायामप्यासीद्वा न वा, यद्यासीत्तदा भवद्भिर्खयोरपि हेत्वोर्न किंचिदसिद्धत्वादिकमुक्तमुत्तरम् , नो चेत्यागासीदेवमपि सोऽतिशयः कथं तेभ्यो हेतुभ्यः प्रादुर्भावमभुवीत, असदकारणादिति भवतां न्यायान्न युक्तमेतदित्यभिप्रायः ॥ २० ॥
एवं तावत्सदकरणादित्ययं हेतुः समर्थितः । साम्प्रतमुपादानपरिप्रहादित्यादिहेतुचतुष्टयसमर्थनार्थमाह-नातः साध्यमित्यादि ।
नातः साध्यं समस्तीति नोपादानपरिग्रहः।
नियतादपि नो जन्म न च शक्तिर्न च क्रिया ॥२१॥ यथोक्तया नीत्या साध्यस्याभावादुपादानपरिग्रहो न प्राप्नोति, तत्साध्यफलवाव्छ.