________________
२५
पजिकासमेतः।
२५ कथमसौ तुल्येत्याह-यदीत्यादि ।
यदि दध्यादयः सन्ति दुग्धाद्यात्मसु सर्वथा।
तेषां सतां किमुत्पाद्यं हेत्वादिसदृशात्मनाम् ॥१७॥ सदकरणादित्येतत्समर्थनार्थमिदम् । यदि दुग्धाद्यात्मसु क्षीरादीनां स्वभावेषु दध्यादिलक्षणानि कार्याणि सर्वथा सर्वात्मना विशिष्टरसवीर्यविपाकादिना विभक्तेन रूपेण मध्यावस्थावत्सन्ति, तदा तेषां सतां किमुत्पाद्यं रूपमस्ति, येन ते कारणैर्दुग्धादिमिर्जन्याः स्युः । हेत्वादिसदृश आत्मा येषामिति विग्रहः । हेतु:-प्रकृतिः, आदिशब्देन चैतन्यम् , तेषां च मध्यावस्थामान्यपुनर्जन्यं निष्पन्नं रूपं गृह्यते । एतेन कार्यकारणभाव(भङ्ग)प्रसङ्गसाधनं प्रमाणद्वयं सूचितम् ॥ १७ ॥ साम्प्रतं स्फुटमेव प्रमाणयन्नाह हेतुजन्यमित्यादि ।
हेतुजन्यं न तत्कार्य सत्तातो हेतुवित्तिवत् ।
अतो नाभिमतो हेतुरसाध्यत्वात्परात्मवत् ॥१८॥ हेतु:-प्रधानं लोकप्रसिद्धं च क्षीरादि । तत्कार्यमिति । महदादि लोकप्रसिद्ध च दध्यादि ।सत्तात इति । सत्वात् । हेतुवित्तिवदिति । हेतुः-प्रधानं लोकप्रसिद्ध च क्षीरादि । वित्तिः-चैतन्यम् । ताभ्यां तुल्यं वर्तत इति हेतुवित्तिवत् । प्रयोगःयत्सर्वाकारेण सन्न तत्केनचिजन्यम् , यथा प्रकृतिश्चैतन्यं वा । सदेव च कार्य मध्यावस्थायाम् । सच्च सर्वात्मना परमतेन दध्यादीति व्यापकविरुद्धोपलब्धिप्रसङ्गः । न वाऽनैकान्तिकताहेतोः । अनुत्पाद्यातिशयस्यापि जन्यत्वे सर्वेषां जन्यत्वप्रसङ्गोऽनवस्थाप्रसङ्गश्च बाधकं प्रमाणम् । जनितस्यापि पुनर्जन्यत्वप्रसङ्गात् । एवं तावत्कार्यत्वामिमतानामकार्यत्वप्रसङ्गापादनं कृतम् । इदानीं कारणामिमतानामकारणत्वप्रसझापादनं कुर्वन्नाह-अतो नाभिमत इत्यादि । अमिमतः-पदार्थ इति शेषः । तेनायमर्थो भवति । मूलप्रकृत्यादि/जदुग्धादिश्वामिमतः पदार्थो विवक्षितस्य महदादेर्दध्यादेश्च न हेतुः-जनकव्यवहारयोग्यो न प्राप्नोतीत्यर्थः । कस्मात् ? असाध्यत्वात्-नास्य साध्यमस्तीत्यसाध्यस्तद्भावस्तत्वम् । एतच्चानन्तरोक्तात्कार्यत्वप्रतिषेधासिद्धम् । अतएवात इत्युक्तम् । परात्मवदिति । अन्यखभाववत् । अकारणाभिमतपदार्थस्वभाववदित्यर्थः । अकारणाभिमतश्च पदार्थश्चैतन्यम् । “न प्रकृतिर्न विकृतिः पुरुष” इति वचनात् । प्रयोगः-यदविद्यमानसाध्यं न तत्कारणं यथा चैतन्यम् ।