________________
२४
तत्त्वसङ्ग्रहः ।
नाशात्तस्य परिणामो व्यवस्थाप्यते नान्यस्येति चेन्न। सदसतोः सम्बन्धाभावेन तत्सम्बन्धित्वासिद्धेः । तथाहि-सम्बन्धो भवेत्सतो वा, भवेदसतो वा । न तावत्सततस्य, समधिगताशेषखभावसम्पत्तेरनपेक्षतया कचिदपि पारतच्यायोगात् । नाप्यसतस्तस्य, सर्वोपाख्याविरहलक्षणतया कचिदप्याश्रितत्वानुपपत्तेः । नहि शशविषाणादिः कचिदाश्रितो युक्तः । न चापि व्यतिरिक्तधर्मान्तरोत्पादविनाशे सति परि. णामो व्यवस्थाप्यते भवद्भिः। किं तर्हि ? यत्रात्मभूतै कस्वभावानुवृत्तिरवस्थाभेदश्च तत्र भवतां परिणामव्यवस्था । नच धर्मिणः सकाशाद्धर्मयोर्व्यतिरेके सति एकस्वभावानुवृत्तिरस्ति । धर्येव हि तयोरेक आत्मा स च व्यतिरिक्त इति नात्मभूतैकस्वभावानुवृत्तिः । नचापि प्रवर्त्तमाननिवर्तमानधर्मद्वयव्यतिरिक्तो धर्म उपलब्धिलक्षणप्राप्तो दर्शनपथमवतरति कस्यचिदित्यतः स तादृशोऽसद्व्यवहारविषय एव विदुषाम् । अथानन्तरभूत इति पक्षस्तथाप्येकस्माद्धर्मिखरूपाव्यतिरिक्तवाद्विनाशोत्पादवतोचर्मयोरपि धर्मिस्वरूपवदेकत्वमेवेति केनाश्रयेण धर्मी परिणतः स्याद्धर्मो वा । अवस्थातुश्च धर्मिणः सकाशाव्यतिरेकाद्धर्मयोरवस्थातृस्वरूपवन्न निवृत्तिर्नापि प्रादुर्भावः । धर्माभ्यां च धर्मिणोऽनन्यत्वाद्धर्मस्वरूपवदपूर्वस्योत्पादः पूर्वस्य च विनाश इति नैकस्य कस्यचित्परिणामः सिद्ध्यति । तस्मान्न परिणामवशादपि भवतां कार्यकारणव्यवहारो युक्त इति । एतच्च स्पष्टमेव दूषणमिति कृत्वा तदुपेक्ष्य यश्चायमसत्कार्यवादे दोषः परैरुक्तस्तं पश्चात्प्रतिविधास्याम इति मन्यमानस्तुल्यदोषापादनव्याजेन सत्कार्यवादमेव तावर्षयते तदत्रेत्यादि । सुधिय इति सौगतास्ते प्राहुः । येयमसदकरणादित्यादिना पञ्चधा चोदना कृता सा सत्वेऽपि सत्कार्यवादपक्षेऽपि तुल्या । तथाहि-शक्यमिदमित्थमभिधातुम् । न सदकरणादुपादानग्रहणात्सर्वसंभवाभावात् । शक्तस्य शक्यकरणात्कारणभावाच सत्कार्यमिति । न सत्कार्यमिति व्यवहितेन सम्बन्धः । कस्मात् ? सदकरणादुपादानग्रहणादित्यादेहेतोः । यश्चोभयोर्दोषो न तमेकश्वोद्यो युक्त (श्चोदयेदिति ?) भावः । ननु च कथमियं समता भवति । यावता तत्रासदकरणादित्येवं चोदना, अन्यत्र सदकरणादिति । न । अभिप्रायापरिज्ञानात् । अकरणनियतोपादानपरिप्रहाविमात्रविवक्षया हीदमुक्तम् । सत्कार्यवादेष्यकरणादीनां तुल्यत्वात् । तस्यां च चोदनायां यदुत्तरं भवतां सत्कार्यवादिनां तत्सत्कार्यवादिनां सुधियां बौद्धानां भविष्यति ॥ १६ ॥