________________
पत्रिकासमेतः।
२३ धर्मयोगि व्यक्तं विपरीतमव्यक्तमिति वर्णितं तदपि बालप्रलपितमेव । नहि यद्यस्मादमिन्नस्वभावं तत्तद्विपरीतं युक्तम् , रूपान्तरत्वलक्षणत्वाद्वैपरीत्यस्य । अन्यथा भेदव्यवहारोच्छेद एव स्यात् । ततश्च सत्वरजस्तमसां चैतन्यानां च परस्परं भेदाभ्युपगमो निर्निबन्धन एव स्यात् । सर्वमेव च विश्वमेकरूपं स्यात् । ततश्च सहोत्पत्तिविनाशप्रसङ्गः, एकयोगक्षेमलक्षणत्वादभेदव्यवस्थानस्य, तस्मान्यक्तरूपाव्यतिरिक्तत्वादव्यक्तमपि हेतुमत्त्वादिधर्मयोगि प्राप्नोति व्यक्तस्वरूपवत् , व्यक्तं वा हेतुमत्त्वादिधर्मयुक्तं स्यादव्यक्तरूपाव्यतिरेकात्तत्स्वरूपवदित्येकान्त एव । अन्यथाऽतिप्रसङ्गः स्यात् । किंचान्वयव्यतिरेकनिश्चयसमधिगम्यो लोके कार्यकारणभावः प्रसिद्धः । नच प्रधानादिभ्यो महदायुत्पत्तिव्यवहारः । नचापि नित्यस्य कारणभावोऽस्ति । येन प्रधाना
कार्यभेदानामुत्पत्तिः सिद्ध्येत् । नित्यस्य क्रमाक्रमाभ्यामर्थक्रियाविरोधात् । स्यादेतत्-नास्मामिरपूर्वस्वभावोत्पत्त्या कार्यकारणभावोऽभीष्टो येन स्वरूपाभेदे सति स विरुध्यते यावता प्रधान सर्पकुण्डलादिवन्महदादिरूपेण परिणामं गच्छत्तेषां महदादीनां कारणमिति व्यपदिश्यते, ते च महदादयस्तत्परिणामरूपत्वात्तत्कार्यतया व्यपदिश्यन्ते । परिणामश्चैकवस्त्वधिष्ठानत्वादभेदेऽपि न विरुध्यत इति । तदेतदसम्यक् । परिणामासिद्धेः । तथाहि परिणामो भवेत्पूर्वरूपपरित्यागाद्वा, भवेदपरित्यागाद्वा । यद्यपरित्यागात्तदाऽवस्थासाङ्कय स्यात् , बृहत्त्वाद्यवस्थायामपि युवत्वाद्यवस्थोपलब्धिप्रसङ्गात् । अथ परित्यागात्तदा स्वभावहानिप्रसङ्गः, ततश्च पूर्वकं स्वभावान्तरं निरुद्धमपूर्व स्वभावान्तरमुत्पन्नमिति न कस्यचित्परिणामः सिद्ध्येत् । किंच तस्यैवाम्यथाभावलक्षणः परिणामो वर्ण्यते, तच्चान्यथात्वमेकदेशेन वा भवेत् , सर्वात्मना वा । न तावदेकदेशेन, एकस्यैकदेशासम्भवात् । नापि सर्वात्मना, तदर्थान्तरोत्पादे पूर्वविनाशप्रसङ्गात् । तस्मान्न तस्यैवान्यथात्वं युक्तम् , स्वभावान्तरोत्पादनिबन्धनत्वात्तस्येति । अथापि स्याव्यवस्थितस्य धर्मिणो धर्मान्तरनिवृत्त्या धर्मान्तरप्रादुर्भावः परिणामो वर्ण्यते नतु स्वभावस्यान्यथात्वादिति । तदेतदसम्यक् । तथाहि-स प्रवर्त्तमानो निवर्तमानश्च धर्मो धर्मिणोऽर्थान्तरभूतो वा स्यादनन्तरभूतो वा । यद्यर्थान्तरभूतस्तदा धर्मी तदवस्थ एवेति कथमसौ परिणतो नाम । नर्थान्तरभूतयोः पटाश्वयोरुत्पादविनाशे सत्यविचलितात्मस्वरूपस्य घटादेः परिणामो भवत्यतिप्रसङ्गात् । एवं हि पुरुषोऽपि परिणामी स्यात् । तत्सम्बद्धयोधर्मयोरुत्पादवि