________________
२२
तत्त्वसङ्ग्रहः । शक्यते कर्तुम् । अतो मन्यामहेऽस्ति प्रधानं यत्र महदादिलिङ्गमविभागं गच्छतीति । तदत्राचार्येण समन्वयादित्ययमेव हेतुरुक्तः परिशिष्टानामुपलक्षणार्थः । तत्र सुखादीत्यादिशब्देन दुःखमोहयोर्ग्रहणम् । व्यक्तमिति महदादिभूतपर्यन्तम् । व्यक्तं समीक्ष्यत इति । स्पष्टमुपलभ्यत इत्यर्थः । कथमित्याह-प्रसादेत्यादि । आदिशब्दः प्रत्येकमभिसम्बध्यते । एतञ्चास्माभिः पूर्वमेव व्याख्यातम् ॥ १४ ॥ एवं समन्वयादित्यस्य हेतोः सिद्धिमुपदर्य प्रमाणं रचयन्नाह-तत इत्यादि ।
ततस्तन्मयसम्भूतं तजात्यन्वयदर्शनात् ।
कुटादिभेदवत्तच प्रधानमिति कापिलाः ॥ १५॥ तन्मयसम्भूतमिति । सुखादिमयं यत्कारणं तस्मात्सम्भूतमित्यर्थः । अयं च साध्यनिर्देशः । तज्जात्यन्वयदर्शनादिति हेतुः । तया त्रैगुण्यलक्षणया जात्या अनुगतत्वदर्शनादित्यर्थः । कुटादिभेदवदिति । घटादिभेदवत् । यच्च तन्मयं कारणं तत्प्रधानमिति कापिलाः-साङ्ख्या वर्णयन्ति ॥ १५ ॥ तदत्रेत्यादिना प्रतिविधानमारमते- .
तदन्त्र सुधियः प्राहुस्तुल्या सत्वेपि चोदना ।
यत्तस्थामुत्तरं वः स्यात्तत्तुल्यं सुधियामपि ॥ १६ ॥ तत्र यत्तावदुक्तं प्रधानादेरमी कार्यभेदास्तद्रूपा एव प्रवर्त्तन्त इति तत्रेदं निरूप्यते । यद्यमी कार्यभेदाः प्रधानस्वभावा एव तत्कथमेषां ततः कार्यतया प्रवृत्तिर्भवति । नहि यद्यस्मादव्यतिरिक्तं तत्तस्य कारणं कार्य वा युक्तम् , भिन्नलक्षणत्वात्कार्यकारणयोः । अन्यथा हीदं कार्यमिदं कारणं वेत्यसङ्कीर्णव्यवस्था कथं भवेत् । ततश्च यद्भवद्भिर्मूलप्रकृतेः कारणत्वमेव, भूतेन्द्रियलक्षणस्य षोडशकस्य गणस्य कार्यत्वमेव, बुद्ध्यहङ्कारतन्मात्राणां च पूर्वोत्तरापेक्षया कार्यत्वं कारणत्वं चेति व्यवस्थानं कृतं तन्न स्यात् । यथोक्तम्-'मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥” इति । सर्वेषामेव हि परस्पराव्यतिरेकात्कार्यत्वं कारणत्वं वा प्रसज्येत । यद्वाऽऽपेक्षिकत्वात्कार्यकारणभावस्य रूपान्तरस्य चापेक्षणीयस्याभावात्सर्वेषां पुरुषवन्न प्रकृतित्वं नापि विकृतित्वं स्यात् । अन्यथा पुरुषस्यापि प्रकृतिविकारव्यपदेशः स्यात् । आह च-"यदेव दुधि तत्क्षीरं यत्क्षीरं तदधीति च । वदता रुद्रिलेनैव ख्यापिता विन्ध्यवासिता” इति । यच्चेदं हेतुमत्त्वादि