________________
२१
पलिकासमेतः। लोके यस्य कर्ता भवति तस्य परिमाणं दृष्टम् । यथा कुलालः परिमितान्मृत्पिण्डापरिमितं घटं करोति प्रस्थप्राहिणमाडकग्राहिणम् । इदं च महदादि व्यक्तं परिमितं दृष्टम् , एका बुद्धिरेकोऽहकार; पञ्च तन्मात्राण्येकादशेन्द्रियाणि पञ्चभूतानि (इति) । अतोऽनुमानेन साधयामोऽस्ति प्रधानं यत्परिमितं व्यक्तमुत्पादयतीति । यदि प्रधानं न स्यानिष्परिमाणमिदं व्यक्तं स्यात् । इतश्चास्ति प्रधानम् , भेदानामन्वयदर्शनात् । यजातिसमन्वितं हि यदुपलभ्यते, तत्तन्मयकारणसम्भूतम् । यथा घटशरावादयो भेदा मृजात्यन्वितास्ते मृदात्मककारणसम्भूताः । सुखदुःखमोहादिजातिसमन्वितं चेदं व्यक्तमुपलभ्यते । कुतः ? प्रसादतापदैन्यादिकार्योपलब्धः । तथाहि-प्रसादलाघवामिष्वङ्गोद्धर्षप्रीतयः सत्वस्य कार्यम् । सुखमिति च सत्वमेवो. च्यते । तापशोषभेदस्तम्भोद्वेगापद्वेगा रजसः कार्यम् । रजश्च दुःखम् । दैन्यावरणसादनाध्वंसबीभत्सगौरवाणि तमसः कार्यम् । तमश्च मोहशब्देनोच्यते । एषां च महदादीनां प्रसादता दैन्यादिकार्यमुपलभ्यते । तस्मात्सुखदुःखमोहानां त्रयाणामेते सन्निवेशविशेषा इत्यव(नु ?)मीयते । तेन सिद्धमेषां प्रसादादिकार्यतः सुखाद्यन्वितत्वम् , तदन्वयाच तन्मयप्रकृतिसम्भूतत्वं सिद्धम् , तत्सिद्धौ च सामर्थ्याद्याऽसौ प्रकृतिस्तत्प्रधानमिति सिद्धमस्ति प्रधानं भेदानामन्वयदर्शनादिति । इतश्चास्ति प्रधानम् , शक्तितः प्रवृत्तेः । इह लोके यो यस्मिन्नर्थे प्रवर्त्तते स तत्र शक्तो यथा तन्तुवायः पटकरणे । अतः साधयामः । प्रधानस्यास्ति शक्तिर्यया व्यक्तमुत्पादयतीति । सा च शक्तिनिराश्रया न संभवति । तस्मादस्ति प्रधानं यत्र शक्तिवर्तत इति । इतश्चास्ति प्रधानम् , कारणकार्यविभागात् । इह लोके कार्यकारणयोर्विभागो दृष्टः, तथाहिमृत्पिण्डः कारणं घटः कार्य सच मृत्पिण्डाद्विभक्तस्वभावः, तथाहि-घटो मधूदकपयसां धारणसमर्थो, न मृत्पिण्डः । एवमिदं महदादिकार्य दृष्ट्वा साधयामोऽस्ति प्रधानं यस्मान्महदादिकार्यमुत्पन्नमिति । इतश्चास्ति प्रधानम् , वैश्वरूप्यस्याविभागात् । वैश्वरूप्यमिति त्रयो लोका उच्यन्ते । एते हि प्रलयकाले कचिंदविभागं गच्छन्ति । तथाहि-पञ्चभूतानि पञ्चसु तन्मात्रेष्वविभागं गच्छन्ति, तन्मात्राणि पञ्चेन्द्रियाणि चाहकारे, अहङ्कारो बुद्धौ, बुद्धिः प्रधाने, तदेवं प्रलयकाले त्रयो लोका अविभागं गच्छन्ति । अविभागो नाम अविवेकः, यथा क्षीरावस्थायामन्यत्क्षीरमन्यह. धीति विवेको न शक्यते कर्तु तद्वत्प्रलयकाले इदं व्यक्तमिदमव्यक्तमिति विवेको न