________________
तत्त्वसवहः । अकार्यातिशयं यत्तु नीरूपमविकारि च ।
विकृतावात्महान्याप्तेस्तत्क्रियेत कथं नु तैः ॥१२॥ एवं मन्यते । असत्कार्यकारित्वाभ्युपगमादेवाशक्यक्रियं कुर्वन्तीत्युक्तं भवति । तथाहि-यदसत् तन्नीरूपं निःस्वभावम् , यच्च नीरूपं तच्छशविषाणादिवदकार्यातिशयम्-अनाधेयातिशयम् , यच्च नाधेयातिशयं तदाकाशवदविकारि । तत्तथाभूतमसमासादितविशेषरूपं कथं केनचिच्छक्यते कर्तुम् । अथापि स्यात्सदवस्थाप्रतिपत्तेर्विक्रियत एव तदित्यत आह-विकृतावात्महान्याप्तेरिति । यस्माद्विकृताविष्यमाणायां यस्तस्यात्मा स्वभावो नीरूपाख्यो वय॑ते, तस्य हानिः प्राप्नोति । नासतः स्वभावापरित्यागे सति तद्रूपतापत्तियुक्ता । परित्यागे वा न तर्हि असदेव सद्रूपतां प्रतिपन्नमिति सिद्ध्येत् । अन्यदेव हि सद्रूपमन्यच्चासद्रूपम् ; परस्परपरिहारेण तयोरवस्थितत्वात् । तस्माद्यदसत्तदशक्यक्रियमेव । तथाभूतपदार्थकारित्वाभ्युपगमे हि कारणानामशक्यकारित्वमेवाभ्युपगतं स्यात् । न चाशक्यं केनचिक्रियते यथा गगनाम्भोरुहम् । अतः शक्तिप्रतिनियमादित्यनुत्तरमेतत् ॥ १२ ॥ पञ्चमहेतुसमर्थनार्थमाह-कार्यस्यैवमित्यादि ।
कार्यस्यैवमयोगाच किंकुर्वत्कारणं भवेत् ।
ततः कारणभावोऽपि बीजादेन विकल्पते ॥१३॥ एवम्-अनन्तरोक्तया नीत्या । यद्वा यथोक्ताद्धेतुचतुष्टयात् । असत्कार्यवादे सर्वथापि कार्यस्यायोगात् , किंकुर्वद्वीजादि कारणं भवेत् । ततश्चैवं शक्यते वक्तुम् । न कारणं बीजादिरविद्यमानकार्यत्वाद्गगनाब्जवदिति । न चैवं भवति । तस्माद्विपर्यय इति सिद्धं प्रागुत्पत्ते: सत्कार्यमिति ॥ १३ ॥ ___ स्यादेतद्यद्यपि नाम सत्कार्यमित्येवं सिद्धम् । प्रधानादेवैते कार्यभेदाः प्रवर्त्तन्ते इत्येतत्तु कथं सिद्ध्यतीत्याह-सुखाद्यन्वितमित्यादि ।
सुखाद्यन्वितमेतच व्यक्तं व्यक्तं समीक्ष्यते ।
प्रसादतापदैन्यादिकार्यस्येहोपलब्धितः ॥१४॥ तत्र प्रधानास्तित्वसाधने पञ्चामी वीतप्रयोगाः परैरुक्ताः । यथोक्तम्-"भेदानां परिमाणात्समन्वयात् शक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य । कारणमत्यव्यक्तम् ।” इति । अयमर्थः । अस्ति प्रधानम् , भेदानां परिमाणात् । इह