________________
पलिकासमेतः। यदि त्वसद्भवेत्कार्य तदा पुरुषाणां प्रतिनियतोपादानग्रहणं न स्यात् । तथाहिशालिफलार्थिनः शालिबीजमेवोपाददते न कोद्रवबीजम् । तथा श्वो मे ब्राह्मणा भोतार इति ध्यर्थिनः क्षीरमुपादते न सलिलम् । तत्र यथा शालिबीजादिषु शाल्यादीनामसत्वं तथा कोद्रवबीजादिष्वपीति, तत्किमिति तुल्येऽपि सर्वत्र शालिफलादीनामसत्वे प्रतिनियतान्येव शालिवीजादीन्युपादीयन्ते । यावता कोद्रवादयोऽपि शालिफलार्थिभिरुपादीयेरन् , असत्वाविशेषात् । अथ तत्फलशून्यत्वात्तैस्तैोंपादीयन्ते । यद्येवं शालिबीजमपि शालिफलार्थिना नोपादेयं स्यात्तत्फलशून्यत्वात् । कोद्रवबीजवत् न चैवं भवति । तस्मात्तत्र तत्कार्यमस्तीति गम्यते ॥ ९॥ तृतीयहेतुसमर्थनार्थमाह-सर्व चेत्यादि
सर्व च सर्वतो भावाद्भवेदुत्पत्तिधर्मकं ।
तादात्म्यविगमस्येह सर्वस्मिन्नविशेषतः॥१०॥ यदि चासदेव कायमुत्पद्यत इति भवतां मतम , तस्मात्सर्वस्मात्पदार्थात्तृणपांसुलोष्टादिकात्सर्व सुवर्णरजतादि कार्यमुत्पद्येत । कस्मान् ? तादात्म्यविगमस्य सर्वस्मिनविशिष्टत्वात् । विवक्षिततृणादिभावात्मताविरहस्य सर्वस्मिन्नुत्पत्तिमति भावे निर्विशिष्टत्वादित्यर्थः । पूर्व कारणमुखेन प्रसङ्ग उक्तः, सम्प्रति तु कार्यद्वारेणेति विशेषः । न च सर्व सर्वतो भवति । तस्मादयं नियमस्तत्रैव तस्य संभवादिति गम्यते ॥ १० ॥
स्यादेतत्कारणानां प्रतिनियतेष्वेव कार्येषु शक्तयः प्रतिनियताः, तेन कार्यस्यासत्वेऽपि किंचिदेव कार्य क्रियते न गगनाम्भोरुहम् , किंचिदेवोपादानमुपादीयते । यदेव समर्थम् , नतु यत्किंचित् , किंचिदेव तु कुतश्विद्भवति नतु सर्व सर्वत इत्येतञ्चोद्यमुत्थाप्योत्तराभिधानव्याजेन चतुर्थहेतुसमर्थनार्थमाह-शक्तीनामित्यादि ।
शक्तीनां नियमादेषां नैवमित्यप्यनुत्तरं ।
शक्यमेव यतः कार्य शक्ताः कुर्वन्ति हेतवः ॥११॥ एषामिति । कारणाभिमतानां भावानाम् । नैवमिति । यथोक्तं दूषणं न भवतीत्यर्थः । तदेतदनुत्तरं बौद्धादेः । कस्मात् ? यस्माच्छक्ता अपि हेतवः कार्य कुर्वाणाः शक्यक्रियमेव कुर्वन्ति, नाशक्यम् ॥ ११ ॥
ननु केनैतदुक्तमशक्यं कुर्वन्तीति, येनैतत्प्रतिषिध्यते भवता; किंत्वसदपि कार्य कुर्वन्तीत्येतावदुच्यते । तच तेषां शक्यक्रियमेवेत्यत आह-अकार्यातिशयमित्यादि ।