________________
तत्त्वसङ्ग्रहः ।
कारणत्वात् । आश्रितं च व्यक्तम् , यद्यस्मादुत्पद्यते तस्य तदाश्रितत्वात् । नत्वेवमव्यक्तम् , तस्याकार्यत्वात् , लिङ्गं च व्यक्तम् , लयं गच्छतीति कृत्वा । तथाहि-प्रलयकाले भूतानि तन्मात्रेषु लीयन्ते, तन्मात्राणीन्द्रियाणि चाहकारे, अहङ्कारो बुद्धौ, बुद्धिश्च प्रधाने, न त्वेवमव्यक्तं कचिदपि लयं गच्छति; तस्याविद्यमानकारणत्वात् । सावयवं च व्यक्तम् , शब्दस्पर्शरसरूपगन्धात्मकैरवयवैर्युक्तत्वात् । नत्वेवमव्यक्तम् , प्रधानात्मनि शब्दादीनामनुपलब्धेः । किंच-यथा पितरि जीवति पुत्रो न स्वतत्रो भवति तथा व्यक्तं सर्वदा कारणायत्तत्वात्परतत्रम् , नत्वेवमव्यक्तम् , तस्य नित्यमकारणाधीनत्वात् । तदेतत्सर्वमाशझ्याह-भावत इति । भावतः-परमार्थतः, ताप्यम् । प्रकृतिविकारभेदेन तु परिणामविशेषाद्भेदो यथोक्तो न विरुध्यत इत्यर्थः । अथवा-भावत इति । स्वभावतस्वैगुण्यरूपेण तद्रूपा एव प्रवर्तन्ते । सत्वरजस्तमसां सूत्कटानुत्कटत्वविशेषात्सर्गवैचित्र्यं महदादिभेदेनाविरुद्धमेवेत्यर्थः । तदनेन कारणात्मनि कार्यमस्तीति प्रतिज्ञातं भवति ॥ ७॥ तत्र कथमवगम्यते प्रागुत्पत्तेः सत्कार्यमित्याह-यदीत्यादि
यदि त्वसद्भवेत्कार्य कारणात्मनि शक्तितः।
कर्तुं तन्नैव शक्येत नैरुप्याद्वियदजवत् ॥ ८॥ सत्कार्यत्वप्रसिद्धये परैः पञ्च हेतव उक्ताः-"असदकरणादुपादानप्रहणात्सर्वसंभवाभावात् । शक्तस्य शक्यकरणात्करणभावाच सत्कार्यम्” इति तत्र प्रथमहेतुसमर्थनार्थमिदमुच्यते । यदि त्वसद्भवेत्कार्यमित्यादि । यदि हि कारणात्मनि प्रा. गुत्पत्तेः कार्य नाभविष्यत्तदा तन्न केनचिदकरिष्यत यथा गगननलिनम् । प्रयोगःयदसत्तन्न केनचिस्क्रियते । यथा गगनाम्भोरुहम् । असञ्च प्रागुत्पत्तेः परमते न कार्यमिति. व्यापकविरुद्धोपलब्धिप्रसङ्गः । न चैवं भवति । तस्माद्यक्रियते तिलादिभिस्तैलादिकार्य तत्तस्मात्प्रागपि सदिति सिद्धम् । शक्तित इति । शक्तिरूपेण; व्यक्तिरूपेण तु कापिलैरपि प्राक् सत्वस्यानिष्टत्वात् । नैरुप्यादिति । निःस्वभाबत्वात् ॥ ८॥ द्वितीयहेतुसमर्थनार्थमाह-कस्माच्चेत्यादि
कस्माच नियतान्येव शालिबीजादिभेदतः। उपादानानि गृहन्ति तुल्यसत्वेऽपरं न तु ॥९॥