________________
पत्रिकासमेतः। घि स्यादुतविधीति । एवं सङ्कल्पवृत्ति मन इति । तदेवं बुद्ध्यहङ्कारमनसां परस्परं विशेषो बोद्धव्यः । शेषं सुबोधम् । एते च महदादयः प्रधानपुरुषौ चेति पञ्चविंशतिरेषां तत्त्वानि । यथोक्तम्-"पञ्चविंशतितत्त्वज्ञो यत्र यत्राश्रमे रतः । जटी मुण्डी शिखी वाऽपि मुच्यते नाऽत्र संशयः ॥” इति । एते यथोक्ताः कार्यभेदाः प्रधानात्प्रवर्त्तमाना न बौद्धाद्यमिमता इव कार्यभेदाः कारणादत्यन्तभेदिनो भवन्ति, किंतु तद्रूपा एव-तत्-प्रधानम् रूपम्-आत्मा येषामिति विग्रहः । त्रैगुण्यादिरूपेण प्रकृत्यात्मभूता एवेति । तथाहि लोके यदात्मकं कारणं भवति तदात्मकमेव कार्यमुपलभ्यते । यथा कृष्णैस्तन्तुभिरारब्धः पटः कृष्णो भवति शुक्लैस्तु शुक्लः । एवं प्रधानमपि त्रिगुणात्मकम् , तथा बुद्ध्यहङ्कारतन्मात्रेन्द्रियभूतात्मकं व्यक्तमपि त्रिगुणमुपलभ्यते तस्मात्तद्रूपम् । किंच-अविवेकि । तथाहीमे सत्त्वादयः इदं च महदादि व्यक्तमिति पृथङ्ग शक्यते कर्तुम् । किंतु ये गुणास्तव्यक्तं यद्व्यक्तं ते गुणा इति । किंच-द्वयमपि व्यक्तमव्यक्तं च विषयः । भोग्यखभावत्वात् । सामान्यं च सर्वपुरुषाणाम् । भोग्यत्वात् । मल्लदासीवत् । अचेतनात्मकं च । सुखदुःखमोहावेकत्वात् । प्रसवधर्मि च । तथाहि-प्रधानं बुद्धिं जनयति, बुद्धिरप्यहकारम् , अहकारोऽपि तन्मात्राणीन्द्रियाणि चैकादश, तन्मात्राणि महाभूतानि जनयन्तीति । तस्मात्रैगुण्यादिरूपेण तद्रूपा एवामी कार्यभेदाः प्रवर्त्तन्ते । यथोक्तम्-"त्रिगुणमविवेकिविषयः सामान्यमचेतनं प्रसवधर्मि । व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥” इति । ननु यदि तद्रूपा एव कार्यभेदास्तत्कथं शास्त्रे व्यक्ताव्यक्तयो(लक्षण्यमुपवर्णितम् । तथाहीश्वरकृष्णोक्तम्-"हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतत्रं व्यक्तं विपरीतमव्यक्तम् ॥” इति । तत्र ह्ययमर्थः हेतुमत्-कारणवत् , व्यक्तमेव । तथाहि-प्रधानेन हेतुमती बुद्धिः, अहङ्कारो बुद्ध्या हेतुमान , पञ्चतन्मात्राण्येकादशेन्द्रियाण्यहङ्कारेण हेतुमन्ति, भूतानि नन्मात्रैः । नत्वेवमव्यक्तम् । तस्य कुतश्चिदप्यनुत्पत्तेः । तथा व्यक्तमनित्यम् , उत्पत्तिधर्मकत्वात् । नत्वेवमव्यक्तम् , तस्यानुत्पत्तिमत्त्वात् । यथा च प्रधानपुरुषो विवि भुवि चान्तरिक्षे च सर्वत्र व्यापितया वर्तेते न तथा व्यक्तं वर्त्तते, किंतु तदव्यापि । यथा च संसारकाले त्रयोदशविधेन बुद्ध्यहङ्कारेन्द्रियलक्षणेन शरीरेण करणेन संयुक्तं सूक्ष्मशरीराश्रितं व्यक्तं संसरति नत्वेवमव्यक्तम् , तस्य विभुत्वेन सक्रियत्वायोगात् । बुद्ध्यहकारादिभेदेन चानेकविध व्यक्तमुपलभ्यते, नाव्यक्तम् , तस्सैकस्यैव सतो लोकत्रय