________________
तत्त्वसङ्ग्रहः । त्वाद्वा भगवानेव श्रेष्ठो नेतरे । तेषां तद्विपरीतत्वात् । एतेन च भगवतः श्रावकादिभ्यो विशिष्टत्वप्रतिपादनेन सवासनाशेषक्लेशज्ञेयावरणप्रहाणलक्षणा स्वधि(धी ?)सम्पत्परिदीपिता भवति । अन्यथा कथमिव तेभ्यो विशिष्टो भवेत् , यदि यथोक्तगुणयोगिता न स्याद्भगवतः । अतएवाह-तं सर्वज्ञमिति । अयं च सर्वज्ञसिद्ध्युपक्षेपः। अथ तं प्रणम्य किं क्रियत इत्याह-क्रियते तत्त्वसङ्ग्रह इति । यथोक्तान्येव प्रतीत्यसमुत्पादविशेषणानि तत्त्वानि, अविपरीतत्वात् , तेषामितस्ततो विप्रकीर्णानामेकत्र हि सङ्केपः सङ्ग्रहः, तत्प्रतिपादकत्वाद्न्थस्यापि तथा व्यपदेशः । सीताहरणं काव्यमिति यथा । अथवा सम्यक् समन्ताद्वा गृह्यन्ते अनेन तत्वानीति सङ्ग्रहो ग्रन्थ एवोच्यते क्रियत इति प्रारब्धापरिसमाप्तकालापेक्षया वर्तमानकालनिर्देशः ॥ ६ ॥ ___ तत्र प्रकृतिव्यापाररहितत्वप्रतिपादनाय सायमतमुपदर्शयन्नाह-अशेषशक्तिप्राचितादित्यादि ।
अशेषशक्तिप्रचितात्प्रधानादेव केवलात् । . कार्यभेदाः प्रवर्तन्ते तद्रूपा एव भावतः॥७॥ यदशेषाभिर्महदादिकार्यप्रामजनिकामिरात्मभूताभिः शक्तिमिः, प्रचितम्-युक्तं सत्वरजस्तमसां साम्यावस्थालक्षणं प्रधानम् , तत एवैते महदादयः कार्यभेदाः प्रवर्त्तन्ते इति कापिलाः । प्रधानादेवेन्यवधारणं कालपुरुषादिव्यवच्छेदार्थम् । केवलादिति वचनं सेश्वरसायोपकल्पितेश्वरनिरासार्थम् । प्रवर्तन्त इति—साक्षात्पारम्पर्येण वोत्पद्यन्त इत्यर्थः । तथाहि तेषां प्रक्रिया । प्रधानाद्बुद्धिः प्रथममुत्पद्यते, बुद्धेश्वाहकारः, अहङ्कारात्पञ्चतन्मात्राणि शब्दस्पर्शरसरूपगन्धात्मकानि, इन्द्रियाणि चैकादशोत्पद्यन्ते । पञ्च बुद्धीन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघाणलक्षणानि, पञ्च कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्था मनश्चैकादशमिति । पञ्चभ्यश्च तन्मात्रेभ्यः पञ्च भूतानि । शब्दादाकाशम् , स्पर्शाद्वायुः, रूपात्तेजः, रसादापः, गन्धात्पृथिवीति । यथोक्तमीश्वरकृष्णेन-"प्रकृतेमहांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥” इति । तत्र महानिति बुद्धराख्या । बुद्धिश्चायं घटः पट इति विषयाध्यवसायलक्षणा । अहङ्कारस्तु-अहं सुभगोऽहं दर्शनीय इत्याद्यमिधानलक्षणः । मनस्तु सङ्कल्पलक्षणम् । तद्यथा-कश्चिदेवं बटुः शृणोति प्रामान्तरे भोजनमस्तीति, तत्र तस्य सङ्कल्पः स्यात्, यास्यामीति, किं तत्र गुडद