________________
पलिकासमेतः। परीक्षायाश्चोपक्षेपः । अथ समधिगताशेषस्वार्थसम्पत्तेर्भगवतः किमर्थमियं प्रतीत्यसमुत्पाददेशनेत्याह-जगद्धितविधित्सयेति । जगते हितं जगद्धितं । तत्पुनरविपरीतप्रतीत्यसमुत्पादावबोधोपायमशेषक्लेशज्ञेयावरणप्रहाणम् , तद्विधातुमिच्छा जगद्धितविधित्सा, सा तद्देशनायाः कारणम् । साऽपि जगद्धितविधित्सा कुतोऽस्य जायेतेत्याह-अनल्पेत्यादि । अनल्पैः कल्पासङ्ख्येयैः सात्मीभूता महादया यस्येति विग्रहः । सा च महादया भगवतः समधिगताशेषस्वार्थसम्पत्तेरपि परार्थकरणव्यापारापरित्यागादवगम्यते ॥ ५ ॥
अथासौ सात्मीभूतमहादयः किं कृतवानित्याह—य इत्यादि । य इति सामान्यवचनोऽपि बुद्धे भगवति प्रवर्त्तते, अन्यस्य यथोक्तगुणासंभवात् । प्रतीत्यसमुत्पादमिति । हेतून्प्रत्ययान्प्रतीत्य-समाश्रित्य यः स्कन्धादीनामुत्पादः स प्रतीत्यसमुत्पादः । एतदुक्तं भवति । हेतुप्रत्ययबलेनोत्पन्नान्स्कन्धादीन्यो जगादेति । यद्यपि समुत्पाद इात व्यतिरेकीव निर्देशस्तथापि प्रतीत्यसमुत्पन्नमेव वस्तु भेदान्तरप्रतिक्षेपमात्रजिज्ञासायां तथा निर्दिश्यते । यद्वा-समुत्पद्यत इति समुत्पादः कृत्यल्युटो बहुलमिति वचनात्कर्तरि घञ् । ततः प्रतीत्यशब्देन सुप्सुपेति मयूरव्यंसकादित्वाद्वा समासः । असमस्तमेव वा । एतेन च सर्वेण भगवतः सम्यक्परहितानुष्ठानसम्पत्सोपाया परिदीपिता भवति । तथाहि-यः प्रतीत्यसमुत्पादमेवंभूतं जगादेत्यनेन यथावत्परहितानुष्ठानं भगवतो दर्शितम् । इदमेव हितानुष्ठानं भगवतो यत्परेषामविपरीतवर्गापवर्गमार्गोपदेशः । यथोक्तम्- "युष्माभिरेव कर्त्तव्यमाख्यातारस्तथागताः” इति । अस्याश्चाविपरीतपरहितानुष्ठानसम्पद उपायो धर्मेषु साक्षादर्शित्वं महाकरुणा च, यतः कृपालुरपि यथाभूतापरिज्ञानान्न सम्यक्परहितमुपदेष्टुं समर्थः, परिज्ञानवानपि कृपाहीनो नैवोपदिशेत् , उपदिशन्नप्यहितमप्युपदिशेत् । तस्मात्प्रज्ञाकृपे द्वे अपि सम्यक् परहितानुष्ठानोपायो भगवतः । तच्च साक्षाद्दर्शित्वं स्वतश्रुतिनिःसङ्गत्वेन दर्शितम् ; सात्मीभूतमहादयत्वेन च महाकरुणायोगः । ननु चाविपरीतः प्रतीत्यसमुत्पादो बोधिसत्वश्रावकादिभिरपि निर्दिष्टः, तत् कोऽत्रातिशयो भगवत इत्याह-गदतांवर इति । यद्यपि ते श्रावकादयः प्रतीत्यसमुत्पादं गदन्ति, तथापि भगवानेव तेषां गदतांवरः । भगवदुपदिष्टस्यैव धर्मतत्वस्य प्रकाशनानहि तेषां स्वतो यथोक्तप्रतीत्यसमुत्पाददेशनायां शक्तिरस्ति । सर्वगुणदोषप्रकर्षापकर्षनिष्ठाधिष्ठान