________________
१४
तत्त्वसङ्कहः ।
यत्रेति विग्रहः । एतच्चामिहितं भगवता । यथोक्तम्-"चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति निरुध्यमानं न कचित्सन्निचयं गच्छति । इति हि भिक्षवश्चक्षुरभूत्वा भवति भूत्वा च प्रतिविगच्छती"ति । अयं च त्रैकाल्यपरीक्षोपक्षेपः । अथ किमयं दृष्टमात्रकालभावी ? यथाहुश्चार्वाका:- भस्मीभूतस्य शान्तस्य पुनरागमनं कुतः" इति । नेत्याह-अनाद्यन्तमिति । अविद्यमानावाद्यन्तावस्मिन्निति विग्रहः । एतदपि निर्दिष्टं भगवता-"अनवरायो हि मिक्षवो जातिसंसार” इत्यादिना । अवरमित्यन्तोऽभिधीयते, अग्रमिति चादिः, तयोः प्रतिषेधादनवराय इत्युच्यते । एतच्चानुत्पना(य)मार्गानधिकृत्योक्तं, उत्पन्नार्यमार्गाणां तु शान्त एव संसारः । अतएवोक्तम्"दी? बालस्य संसारः सद्धर्ममविजानतः” इति । अयं च लोकायतपरीक्षोपक्षेपः । अथ किमयं प्रतीत्यसमुत्पादो बहिरर्थात्मक आहोस्विञ्चित्तमात्रशरीर इति, आहप्रतिबिम्बादिसन्निभमिति। एतेन चित्तमात्रात्मक एवेति दर्शयति । तथाहीदमुक्तं भवति । यथाहि प्रतिबिम्बालातचक्रगन्धर्वनगरादयश्चित्तमात्रशरीरास्तथाऽयमपीति । एतच्चोक्तं भगवता-“बाह्यो न विद्यते ह्यर्थो यथा बालैर्विकल्प्यते । वासनालुठितं चित्तम
र्थाभासं प्रवर्त्तते ॥” इति । अयं च बहिरर्थपरीक्षोपक्षेपः । तदेवं यथोक्तासदर्थकल्पनाजालरहितत्वं प्रतीत्यसमुत्पादस्य प्रतिपाद्योपसंहरन्नाह-सर्वप्रपञ्चेत्यादि । सर्वेषां यथोक्तानां प्रकृतिहेतुत्वादीनां प्रपञ्चानां सन्दोहः-समूहः, तेन निर्मुक्तः । अथ किमयमन्यैरपि हरिहरहिरण्यगर्भादिभिरेवममिसम्बुद्धः? नेत्याह-अगतं परैरिति। सर्वतीर्थानां वितथात्मदृष्ट्यामिनिविष्टत्वाद्भगवत एवायमावेणिकोऽभिसम्बोध इति दर्शयति । एतच्च सर्वपरीक्षासु प्रतिपादयिष्यति ॥ ४ ॥
अथायमेवंभूतः प्रतीत्यसमुत्पादः किं स्वयमभिसम्बुध्य गदितो भगवता, आहोस्वित्परामिमतापौरुषेयवेदाश्रयेण, यथाहु मिनीयाः-"तस्मादतीन्द्रियार्थानां साक्षाद्रष्टा न विद्यते । वचनेन तु नित्येन यः पश्यति स पश्यति ॥” इति । नैवमित्याह-स्वतन्त्रश्रुतिनिःसङ्ग इति–खतत्रा श्रुतिः-स्वतःप्रमाणभूतो वेदः, नित्यं वचनमिति यावत् । तस्या निःसङ्गः-निरास्थः, तन्निरपेक्ष एव साक्षादर्शी प्रतीत्यसमुत्पादं गदितवानित्यर्थः । न चाप्यपौरुषेयं वाक्यमस्ति । यथोक्तं भगवता -"इत्येते आनन्दपौराणा महर्षयो वेदानां कर्तारो मत्राणां प्रवर्त्तयितार” इति । एतब पश्चात्प्रतिपादयिष्याम इति भावः । अयं च श्रुतिपरीक्षायाः स्वतत्रप्रामाण्य