________________
पजिकासमेतः। लिङ्गमविनामावलक्षणम्"। व्याप्तिदर्शनाद्धेतोः । साध्ये(ध्यो ?)नोक्तः स च स्फुट इति । तच्च लिङ्ग स्वभावकार्यानुपलम्भविशेषभेदेन त्रिधा मिद्यते । तत्र यत्किंचिद्भिक्षवस्समुदयधर्मकमित्यनेन स्वभावाख्यं लिङ्गमुपदर्शितमेव । कार्याख्यमपि-"धूमेन ज्ञायते वह्निः सलिलं च बलाकया । निमित्तैर्ज्ञायते गोत्रं बोधिसत्वस्य धीमतः॥" इति ब्रुवता दर्शितम् । अनुपलम्भविशेषाख्यमपि दर्शितमेवानुपलम्भमात्रस्य प्रामाण्यं प्रतिक्षिपता । यथोक्तम्-'मा भिक्षवः पुद्गलः पुद्गलं प्रमिणोतु पुद्गले वा प्रमाणमुद्हातु, क्षण्यते हि भिक्षवः पुद्गलः पुद्गलं प्रमिण्वन् , अहं वा पुद्गलं प्रमिणुयां यो वा स्यान्मादृश"इति । एतेन हि स्वभावविप्रकृष्टेष्वनुपलम्भमात्रस्य प्रामाण्यं प्रतिक्षिप्तम् , अहं वेत्यादि ब्रुवताऽनुपलम्भविशेषस्यैव प्रामाण्यमित्येतदपि स्फुटतरमेव दर्शितम् । अयं च प्रत्यक्षानुमानप्रमाणान्तरपरीक्षाणामुपक्षेपः । अथ किमयं प्रतीत्यसमुत्पादः केनचिद्वस्तुत्वादिना रूपेण सान्वयः? यथाहुः स्याद्वादिनः, आहोस्विदसंकीर्णस्वभावः, किं चातः गन्वयत्वे प्रत्यक्षादीनां लक्षणसांकर्यम, कार्यकारणयोश्च स्वभावाभेदादजन्यजनकत्वम् , ततश्च न स्पष्टलक्षणयोगिप्रमाद्वितयनिश्चितत्वम् । नापि प्रतीत्यसमुत्पादार्थों युक्तः । असङ्कीर्णस्वभावत्वेऽपि सहकारिणां भेदाविशेषादजनकामिमतपदार्थवदेकार्थक्रियाकारित्वं न भवेत् ; अत्राह-अणीयसापीत्यादि । एवं मन्यते, उत्तर एवात्र पक्षो न चात्र यथोक्तदोषावसर इति, पश्चात्प्रतिपादयिष्यामः । मिश्रीभूतः-सङ्कीर्णः अपरात्मा यत्रेति विग्रहः । अपरस्य कारणादेः स्वभावस्य यत्र लेशतोऽपि कार्याद्यात्मन्यनुगमो नास्तीत्यर्थः । अणीयसापीति-सूक्ष्मतरेणापि । न केवलं बहुभिः सत्वज्ञेयत्वादिभिरित्यपिशब्देन दर्शयति । एकस्यापि हि रूपस्यानुगमे सर्वात्मनानुगतिः स्यादिति भावः । एतच्च पश्चात्प्रतिपादयिष्यति । स चायमुक्तो भगवता-"कथं नु शाश्वतोऽङ्कुरः, यस्मादन्याङ्कुरोऽन्यद्वीजम् । न तु य एवाङ्करस्तदेव बीजम् । तथा विसदृशो बीजादकर इति, अतो न संक्रमत" इति । अयं च स्याद्वादपरीक्षोपक्षेपः ॥ ३ ॥
अथ किमसङ्कीर्णस्वभावा अपि स्कन्धादयोऽध्वस्वजहत्स्वभावा एव वर्त्तन्ते ? यथाहुरेके संक्रान्तिवादिनः सर्वास्तिवादाः । नैवमित्याह-असंक्रान्तिमितियदि तु संक्रान्तिः स्यात्तदा सर्वात्मना सत्वान्न किंचिजन्यमस्तीति प्रतीत्यसमुत्पादस्यैवायोग इति भावः। न विद्यते संक्रान्ति:-अध्वसु सञ्चारः स्कन्धादीनां