________________
तत्त्वसहः ।
आरोपितो–बाह्यत्वेनाध्यारोपित आकारः-स्वभावो यस्य शब्दप्रत्यययोर्गोचरस्य स तथोक्तः, आरोपिताकारः-शब्दप्रत्यययोर्गोचरो-विषयो यत्र प्रतीत्यसमुत्पादे स तथोक्तः । प्रत्ययशब्दः शब्दशब्दसन्निधानादाविष्टामिलापात्मके प्रत्ययविशेषे विकल्पे द्रष्टव्यः, तयोरेकविषयत्वाव्यभिचारित्वेन सहचरितत्वात् । तेनैतदुक्तं भवति । यद्यप्युपाधयो न सन्ति, तथापीतरेतरव्यावृत्तवस्तुदर्शनद्वारायातो बहीरूपत्वेनाध्यवसितो विकल्पः प्रतिबन्धात्मकः शब्दार्थस्तत्रास्ति । नहि परमार्थतः शब्दानामसौ गोचरः, तत्र सर्वविकल्पानामतीतत्वात् । किंतु यथैवाविचारितरमणीयतया लोके शब्दार्थः सिद्धस्तथैव भगवद्भिरपि समु(म ?)पेक्षिततत्वार्थैर्गजनिमीलिकया परमार्थावताराय तद्भावनासंवृत्त्या प्राकाश्यते, उपायान्तराभावात् । समारोपिताकारत्वेऽपि शब्दार्थस्य पारम्पर्येण वस्तुप्रतिबन्धात्तदधिगमे हेतुत्वमस्त्येवेति तथाविधं वस्तु तेषां सामर्थ्यात्प्रकाशितमेव भवतीति न विप्रलम्भसंभवः । तत्रेदमुक्तं तायिना-"येन येन हि नाम्ना वै यो यो धर्मोऽभिलप्यते । नासौ संविद्यते तत्र धर्माणां सा हि धमता ।"इति । अयं च शब्दार्थपरीक्षोपक्षेपः ॥२॥ ___ अथ किमयं तीर्थिकपरिकल्पितपदार्थवत्प्रतिपादकप्रमाणद्रविणदरिद्रतया वचनरचनामात्रसार आहोस्विदस्ति किंचिदस्य प्रतिपादयित प्रमाणम् ? अस्तीत्याह-सष्टेत्यादि । स्पष्टं च तल्लक्षणं चेति विशेषणसमासः । स्पष्टत्वं च लक्षणस्यासंभवाव्याप्त्यतिव्याप्तिदोषरहितत्वात् । तीर्थिकप्रमाणलक्षणं त्वस्पष्टमिति दर्शनार्थ स्पष्टलक्षणमित्याह । तेन संयुक्तम्-समन्वितं यत्प्रमाद्वितयम्-प्रत्यक्षानुमानाख्यं तेन निश्चितम् । एतच सर्वपरीक्षासु प्रतिपादयिष्यति । एतदपि भगवतोऽनुमतम् ; यथोक्तम्-"तापाच्छेदाच निकषात्सुवर्णमिव पण्डितैः। परीक्ष्य मिक्षवो ग्राह्यं मद्वचो नतु गौरवात् ॥" इति। तत्र प्रत्यक्षस्य लक्षणं भ्रान्तिकल्पनाभ्यां रहितत्वम्। तच्च भगवतोक्तमेव। यदाह -"चक्षुर्विज्ञानसङ्गी नीलं विजानाति, नो तु नील"मिति । तथाहि नीलं विजानातीत्यनेनाविपरीतविषयत्वख्यापनादभ्रान्तत्वमुक्तम् , नो तु नीलमित्यनेन नामानुविद्धार्थग्रहणप्रतिक्षेपात् कल्पनारहितत्वम् । अनुमानस्यापि लक्षणमुक्तमेवानुमानाश्रयं लिङ्गं दर्शयता । तथाहि-"साध्यार्थाविनाभूतं लिङ्गं विनिश्चितं सवनुमानज्ञानस्य कारणम् , तच्च यत्किंचिद्भिक्षवः समुदयधर्मकं सर्वत्र निरोधधर्मक"मिति । एवं साध्येन हेतोाप्तिमुपदर्शयता स्फुटतरमेव प्रकाशितम् । यथोक्तम्- "अनुमानाश्रयो