________________
पत्रिकासमेतः। पारशून्यमित्यर्थः । तत्रेदमुक्तं भगवता-“स चायमङ्कुरो न स्वयं कृतो नोभयकृतो नेश्वरनिर्मितो न प्रकृतिसंभूतो नैककारणाधीनो नाप्यहेतुः समुत्पन्न” इति । एतेन प्रधानेश्वरोभयाहेतुकशब्दब्रह्मात्मपरीक्षाणामुपक्षेपः । अथ स तमेवंभूतं प्रतीत्यसमुत्पादं किमक्षणिकं जगाद ? नेत्याह-चलमिति । चलम-अस्थिरम् , क्षणिकमिति यावत् । अन्यस्य चलत्वायोगादिति भावः । तत्रेदमुक्तं भगवता-"क्षणिकाः सर्वसंस्कारा अस्थिराणां कुतः क्रिया । भूतियेषां क्रिया सैव कारकं सैव चोच्यत" इति । अयं च स्थिरभावपरीक्षोपक्षेपः । यद्येवं कर्मफलसंबन्धादिव्यवस्थायाः प्रतीत्यसमुत्पाद आश्रयो न प्राप्नोति चलत्वादित्यत आह-कर्मेत्यादि । एतच्च पश्चात्प्रतिपादयिप्याम इति भावः। तत्र कर्म-शुभाशुभम् , तत्फलं चेष्टानिष्टम् , तयोः संबन्धो जन्यजनकभावलक्षणः, तस्य व्यवस्था संस्थितिः, व्यवहार इति यावत् । आदिशब्देन स्मृतिप्रत्यभिज्ञानसंशयनिश्चयवयंनिहितप्रत्यनुमार्गणदृष्टार्थकुतूहलविरमणकार्यकारणभावतदधिगन्तृप्रमाणबन्धमोक्षादिव्यवस्थापरिग्रहः तेषां समाश्रय इति विग्रहः । तत्रोक्तं भगवता-"इति हि भिक्षवोऽस्तिकर्मास्तिफलं कारकस्तु नोपलभ्यते य इ. मान् स्कन्धान्विजहायन्यांश्च स्कान्धानुपादत्तेऽन्यत्र धर्मसंकेतात् । तत्रायं धर्मसंकेतो यदुतास्मिन्सतीदं भवती"त्यादि । अयं च कर्मफलसंबन्धपरीक्षोपक्षेपः । स पुनरयं प्रतीत्यसमुत्पादः स्कन्धधात्वायतनानां द्रष्टव्यः, तेषामेव प्रतीत्यसमुत्पन्नत्वात् ॥१॥
ननु द्रव्यगुणकर्मादयो वस्तुभूताः सन्ति तेषां कस्मान्न भवतीत्यत्राह-गुणेत्यादि । गुणाश्च द्रव्याणि च क्रियाश्च जातिश्च समवायश्चेति द्वन्द्वः । जातिशब्देन परमपरं च द्विविधमपि सामान्यं गृह्यते । आदिशब्देन अन्त्यद्रव्यवर्तिनां विशेषाणाम् , ये च धर्मिव्यतिरेकिणो धर्माः कैश्चिदुपवर्ण्यन्ते यथा षण्णामपि पदार्थानामस्तित्वं सदुपलम्भकप्रमाणविषयत्वमित्येवमादयस्तेषां ग्रहणम् । गुणादयश्च ते उपाधयश्च विशेषणानीति विशेषणसमासः । तैः शून्यं रहितमित्यर्थः । तत्रेदमुक्तं भगवता-"सर्व सर्वमिति ब्राह्मण ? यावदेव पञ्च स्कन्धा द्वादशायतनान्यष्टादश धातव" इति । अयं च षटपदार्थपरीक्षोपक्षेपः । ननु चोपाध्यभावे कथं प्रतीत्यसमुत्पादः शब्दविकल्पाभ्यां विषयीक्रियते, न च ताभ्यामविषयीकृतमभिधातुं पार्यते, न च शब्दविकल्पयोरुपाधिमन्तरेण प्रवृत्तिरस्ति, तत्कथं तं भगवान् जगादेत्याह-आरोपिताकारेत्यादि ।