________________
तत्त्वसङ्कहः ।
दानमर्हति यो यस्मिन्नभिहितेऽपि न गम्यते । यथाऽभिधेयप्रयोजनयोरन्यतरामिधानेऽपि नेतरावगतिर्भवति न च संभवोऽस्ति, यत्प्रयोजनामिधानेऽपि यथोक्तः संबन्धो नाभिहितः स्यादिति द्वे एवाभिधेयप्रयोजने वाच्ये । एतच्चाभिधेयादि न वाक्यार्थतया विभक्तमस्माभिः । अपि तु वाक्यादवयवानपोद्धृय तदर्थतया । वाक्यार्थस्तु यथोक्तसङ्ग्रहकरणमेव । यदा गुणीभूतस्याप्यभिधेयादेर्वाक्यादस्मात्प्रतीयमानत्वाद्वाक्यार्थत्वमविरुद्धमेव । प्राधान्येन हि वाक्यस्यानेकार्थाभिधानं विरुद्धम् । न तु गुणप्रधानभावेन ॥
अथापरिमितगुणगणाधारे भगवति किमिति प्रतीत्यसमुत्पाददेशनयैव स्तोत्राभिधानम् । तदेतदचोद्यम् । सर्वत्रैव तुल्यपर्यनुयोगत्वात् । न च शक्यमपरिमितगुणोद्भावनया पूजाभिधानं कर्तुमिति गुणैकदेशोद्भावनयैव सा विधेया । तेन प्रतीत्यसमुत्पाददेशनोद्भावनया वा सा विहिताऽन्यथा वेति न कश्चिद्विशेषः ।।
तथाप्युच्यते विशेषः । तथाहि-यथाभूतगुणसंपद्योगादभ्युदयनिःश्रेयसप्रापणतो जगतः शास्ता भवति भगवान् स एवाभ्युदयनिःश्रेयसार्थिनां भगवच्छरणादिगमनहेतुरभिधानीयः । प्रतीत्यसमुत्पाददेशनया चाभ्युदयादिसम्प्रापको भगवान् । तथाहि-अविपरीतप्रतीत्यसमुत्पाददेशनातस्तदर्थावधारणात्सुगतिहेतुरविपरीतकर्मफलसंबन्धादिसंप्रत्यय उपजायते, पुद्गलधर्मनैरात्म्यावबोधश्च निःश्रेयसहेतुः श्रुतचिन्ताभावनाक्रमेणोत्पद्यते, तदुत्पत्तौ ह्यविद्या संसारहेतुर्निवर्त्तते, तन्निवृत्तौ च तन्मूलं सकलं क्लेशज्ञेयावरणं निवर्तत इति सकलावरणविगमादपवर्गसंप्राप्तिर्भवति । तेन प्रतीत्यसमुत्पादप्रधानमिदं भगवतः प्रवचनरत्नमित्यविपरीतप्रतीत्यसमुत्पादामिधायित्वेन भगवतः स्तोत्राभिधानम् । स चायं प्रतीत्यसमुत्पादः परैर्विषमहेतुः प्रमाणव्याहतपदार्थाधिकरणश्चेष्यते । अतस्तन्निरासेन यथावदेव भगवतोक्त इति दर्शनार्थ वक्ष्यमाणसकलशास्त्रप्रतिपाद्यार्थतत्वोपक्षेपार्थ च बहूनां यथोक्तप्रतीत्यसमुत्पादविशेषणानामुपादानमिति समुदायार्थः । अवयवार्थस्तूच्यते । तत्र प्रकृतीशोभयात्मादिव्यापाररहितमित्यादौ सर्वत्र यः प्रतीत्यसमुत्पादं जगादेति संबन्धः । तत्र प्रकृतिः सायपरिकल्पितं सत्वरजस्तमोरूपं प्रधानम् , ईश:-ईश्वरः, उभयम्-एतदेव द्वयम्, आत्मा-सृष्टिसंहारकारक एकः पुरुषस्तदन्यत्र संसारीआदिमहणेन कालादिपरिग्रहः-तेषां व्यापार:-कारणभावः, तेन रहितम्-तव्या