________________
पलिकासमेतः। पूर्वाचायैरेव तत्त्वनिश्चयस्य कृतत्वात् । अतो विशेषतः परानुग्रहस्यापि भावात् । प. रार्थत्वाच शास्त्रस्य । तस्मात्पूर्वाचार्यैः प्रतिपादितान्यपि तत्त्वानि यो मन्दधीरतिविप्रकीर्णतया सुखमवधारयितुमशक्तस्तं प्रति सुखावधारणाय तत्त्वसङ्ग्रह आरभ्यमाणो न विफलतामेष्यतीति मन्यमानः शास्त्रमिदमारभते । अत एव तत्त्वसङ्ग्रह इत्याह । अन्यथा क्रियते तत्त्वनिश्चय इत्येवमुक्तं स्यात् । एवं हि यथाविवक्षितार्थप्रतिपादनं स्फुटमेव कृतं भवेत्तस्मात्तत्त्वसुखावबोध एव तत्त्वसङ्घहक्रियायाः फलम् । तस्यापि च सुखावबोधस्याचिरेणाभ्युदयनिःश्रेयसावाप्तिः प्रयोजनम् । तच्चातिप्रतीतमेवेति नोक्तम् , तत्त्वज्ञानादभ्युदयनिःश्रेयसावाप्तिर्भवतीति सर्वास्तिकानां प्रसिद्धत्वात् ।।
अथवा जगद्धितविधित्सयेत्येतस्योत्तरत्रानुवृत्तेस्तदपि दर्शितमेव । तथाहि-तदनुवृत्तौ जगद्धितविधित्सया तत्त्वसङ्ग्रहः क्रियत इति वाक्यार्थो जायते । जगद्धितविधित्सा च तत्त्वसङ्ग्रहक्रियायाः कथं हेतुर्भवति । यदि जगद्धितविधानं तत्त्वसङ्ग्रहक्रियायाः फलं स्यात् । यथा पिपासया सलिलमानयतीत्यत्र सलिलपानं तदानयनक्रियायाः फलमिति गम्यते, तद्वदिहापि; ततश्च जगद्धितविधानार्थ तत्त्वसङ्ग्रहः क्रियत इत्यर्थः संतिष्ठते । एतच्चानुगुणोपायमेव प्रयोजनमुपदर्शितम् । तथाह्यभ्युदयनि:श्रेयसावाप्तिर्जगद्धितमुच्यते । तस्य चाविपर्यासो हेतुः, सर्वसंक्लेशस्य विपर्यासमूलत्वात् ; संक्लेशविपरीतत्वाच्च जगद्वितस्य । अतस्तद्धेतुविपरीतोऽस्य हेतुरवतिष्ठते । अविपर्यासश्च यथावत्कर्मफलसंबन्धामिसम्प्रत्ययः, अविपरीतपुद्गलधर्मनैरात्म्यावबोधश्च । स चास्मादविपरीतप्रतीत्यसमुत्पादसंप्रकाशकाच्छास्त्राच्छ्रवणचिन्ताभावनाक्रमेणोपजायत इत्यतोऽवगम्यत एव तत्त्वसङ्ग्रहक्रियातो जगद्धितमपि सम्पद्यत इति । अभ्युदयनिःश्रेयसावाप्तौ च सत्याममिमतार्थपरिसमाप्त्या पुरुषस्याकाङ्क्षाविच्छेदादतो नापरमूर्ध्व प्रयोजनं मृग्यमिति प्रयोजननिष्ठा । ___ संबन्धस्त्वमिधेयप्रयोजनाभ्यां न पृथगुपदर्शनीयो निष्फलत्वात्। तथाहि-सम्प्र. दर्यमानः शास्त्रप्रयोजनयोः साध्यसाधनभावलक्षणो दर्शनीयो नान्यो गुरुपर्वक्रियादिलक्षणस्तस्यार्थिप्रवृत्तेरनन्तत्वात् । स च साध्यसाधनभावः प्रयोजनाभिधानादेव दर्शितः । तथाहीदमस्य प्रयोजनमिति दर्शयता दर्शितं भवतीदमस्य साधनमिति । न हि यो यन्न साधयति तत्तस्य प्रयोजनं भवत्यतिप्रसङ्गात् । तस्मात्सामर्थ्यलभ्यत्वाबासौ प्रयोजनाभिधेयाभ्यां पृथगभिधानीयः । स हि नाम तस्मात्पृथगुपा