________________
तत्त्वसमहः। प्रयोजन तु सङ्घहशब्देन दर्शितम् । तथाहि-प्रयोजनमुपदर्यमानं शास्त्रेषु प्रवृत्तिकामानां शास्त्रगतमेवोपदर्शनीयं नान्यगतम् , अन्यथा यसङ्गतामिधानं स्यात् । उतप-शानेषु हि परं प्रवर्त्तयितुकामो वक्ता शास्त्रादौ प्रयोजनमभिधत्ते न व्यसनितया (इति) । कथं च परः प्रयोजनोपदेशाच्छानेषु प्रवर्तितो भवति । यदि तद्गतमेव प्रयोजनमभिधीयते नान्यगतम् । नान्य(दपि) (गत ?) प्रयोजनाभिधानादन्यत्र प्रेक्षावतः प्रवृत्तिर्भवेत् । विशिष्टार्थप्रतिपादनसमर्थ च वचनं शास्त्रमुच्यते । नाभिधेयमानं नापि शब्दमात्रमर्थप्रतिपादनसामर्थ्यशून्यमतो नामिधेयादिगतं प्रयोजनमुपदर्शनीयम् । यत्पुनः सम्यगज्ञानपूर्विका सर्वज्ञत्वेनार्थसिद्धिरि(ति, तत् "". ... १) इत्यनेनाभिप्रायेण प्रयोज(नम् ।) (न?) प्रयोजनस्य कथनं नामि. धेयप्रयोजनस्य सम्यग्ज्ञानव्युत्पत्तेरेव सम्यग्ज्ञानशब्देन विवक्षितत्वात् । सम्यग्ज्ञानव्युत्पत्ते (स्तदर्थत्व एव सर्वज्ञत्वेनार्थसिद्धिः?) इत्येतत्प्रयोजनामिधानं सनतार्थ भवेत् । अन्यथा दुःश्लिष्टमेव स्यात् । तच्च प्रयोजनं शास्त्रस्य त्रिविधं क्रियारूपं क्रियाफलं क्रियाफलस्य फलम् । तथा हि-शास्त्रस्य परप्रतिपादनायाऽऽरभ्यमाणस्य का रणत्वं वा भवेत् । कर्तृत्वं वा, कर्तृकरणयोश्च साधनत्वान्न यथोक्तप्रयोजनव्यतिरिक्त प्रयोजनमस्ति, क्रियापेक्षत्वात्साधनस्य । त्रिविधस्यापि च क्रियादेस्तदविनाभावित्वातत्प्रयोजनस्वं युक्तमेव । साक्षात्पारम्पर्यकृतस्तु विशेषः । फलाख्यं तु प्रयोजनं प्रधानम् , तदर्थत्वात्नियारम्भस्य । तत्र सर्ववाक्यानां स्वाभिधेयप्रतिपादनलक्षणा क्रिया साधारणा । सा चातिप्रतीततया न प्रयोजनत्वेनोपदर्शनीया तस्यां शास्त्रस्य व्यमिचाराभावात्। अनभिधेयत्वाशङ्काव्युदासार्थमुपदर्शनीयेति चेत् । न । अभिधेयकथनादेव तदाशङ्काया व्युदस्तत्वात् । नाप्यभिधेयविशेषप्रतिपिपादयिषया तदुपदर्शनम् , अभिधेयविशेषकथनादेव तस्य प्रतिपादितत्वात् । तस्मादसाधारणा या क्रिया सोपदर्शनीया सा त्वस्य शास्त्रस्य विद्यत एव तत्त्वसङ्ग्रहलक्षणा । यतोऽनेन शास्त्रेण तेषां तत्त्वानामितस्ततो विप्रकीर्णानामेकत्र बुद्धौ विनिवेशलक्षणः सङ्ग्रहः क्रियते । अतस्तामेव सङ्ग्रहशब्देन दर्शितवान् । अस्याञ्च तत्त्वसङ्ग्रहक्रियायाः प्रतिपाद्य(पत्तृ ?)सन्तानगतस्तत्त्वसुखावबोधः फलम् । तदपि सङ्ग्रहशब्देन प्रकाशितमेव । एकत्र हि सहितस्य तत्त्वस्य प्रतिपत्तुः सुखेनोद्हो जायते, दुःखेन तु विप्रकीर्णस्येति कृत्वा सुखोदहकारणं सङ्ग्रहं सबहशब्देन प्रतिपादयंस्तत्त्वसुखावबोधार्थमिदमारभ्यत इति प्रकाशयति । न तु तत्त्वावबोधमानमस्य फलम् , एवं हि शासन प्रणयनवैयर्य