________________
पखिकासमेतः। भक्तं प्राक् । तस्मान्न श्रो(तस्मात् श्री ?)तृजनप्रवृत्त्यर्थमेवाभिधेयादिकथनमिति स्थितम् । न तु पुनः स्वार्थम् , ततः स्वयमप्रवृत्तेरन्यथोन्मत्तकप्रलापवदसम्बद्धमेव स्यात् । यत्पुनरुक्तमाचार्येण न्यायविन्दौ-"स्वयमप्येवं प्रतिपत्तिर्भवतीति स्वार्थानुमानेऽप्यस्याः प्रयोग” इति, न तद्वहिर्भूतं प्रयोगमधिकृत्य । किं तर्हि अन्तर्जल्पात्मकमेव । खार्थानुमानस्य ज्ञानात्मकत्वात् । यच "प्रायः प्राकृतशक्ती"त्यादिकमुक्तं । तदपि वक्रोच्या परेषामीादिमलोपहतचेतसां भाजनीकरणार्थमित्यलं बहुना ॥ - शास्तृपूजाविधानं तु भगवति सर्वश्रेयोधिगतिहेतोः प्रसादस्योत्पादनार्थम् । तथाहि गुणगणाख्यानविधिनाऽमुना भगवतो माहात्म्यमुद्भाव्यते । तदुपश्रुत्य च श्रद्धानुसारिमनसां तावदसंशयं भगवति झगिति चित्तप्रसादः समुदेति । येऽपि प्रज्ञानुसारिणस्तेऽपि तथाविधेषु बाधमपश्यन्तः प्रज्ञादीनां च गुणानामभ्यासात्प्रकर्षमवगच्छन्तो वक्ष्यमाणादप्यतीन्द्रियार्थदृक्साधकात्प्रमाणानूनं जगति संभाव्यन्त एव तथाविधाः सूरय इत्यवधार्य भर. ति प्रसादमुपजनयन्त्येव । तत्प्रसादाच्च तद्गुणास्तत्प्रवचनेषु तदाश्रिते च शास्त्रादौ परीक्षापुरःसरमुद्रहणाद्यर्थमाद्रियन्ते ततः श्रुतमय्यादिप्रज्ञोदयक्रमेण यावत्परं श्रेयोऽधिगच्छन्तीति महत्सु प्रसादः सर्वश्रेयोधिगतेः प्रधानं कारणम् । अत एव प्रायेण प्रसिद्धशास्तृकप्रवचनाश्रयेण प्रणीयमानेषु शास्त्रेषु शास्त्रकृतः शास्त्रस्यादौ तावत् स्वशास्तृपूजामेव विद्धति । तस्यास्तत्प्रवृत्तावप्यङ्गभावस्य लेशतो विद्यमानत्वात् । अतएवोक्तम्- "शास्त्रं प्रणेतुकामः स्वशास्तुर्माहात्म्यज्ञापनार्थ तस्मै नमस्कारमारभत" इति । अतो नानर्थकं शास्तृपूजाविधानमिति स्थितम् ।।
तत्र तं प्रणम्येत्येतत्पर्यन्तेन शास्तृपूजाविधानं निर्दिष्टम् । क्रियते तत्त्वसङ्ग्रह इत्यनेनाभिधेयप्रयोजने प्राह-तथाह्यभिधेयमस्य शास्त्रस्य प्रकृत्यादिव्यापाररहितत्वादीनि प्रतीत्यसमुत्पादविशेषणानि तत्त्वानि । तानि च सामर्थ्यात्तत्त्वशब्देन दर्शितान्येव, अन्येषां तत्त्वार्थत्वानुपपत्तेः । ननु च वाक्यस्यैवाभिधेयवत्त्वं नान्यस्येति न्यायः, न च सकलं शास्त्रं वाक्यमपि तु वाक्यसमूहस्तत्कुतोऽस्याभिधेयसंभवः । नैतदस्ति । यद्यपि वाक्यसमूहात्मकं शास्त्रं तथाऽपि तानि वाक्यानि परस्परव्यपेक्षासंबन्धावस्थितानि, अन्यथोन्मत्तादिवाक्यसमूहवदसङ्गतार्थमेव स्यात् । ततश्च परस्परसंबद्धानेकशब्दसमूहात्मकत्वात् तदन्यवाक्यवद्वाक्यमेव शास्त्रम् । न हि पदैरेव वाक्यमारभ्यतेऽपि तु वाक्यैरपि । अतो महावाक्यत्वादभिधेयवदेव शास्त्रमित्यचोद्यम् ।