________________
पविकासमेतः ।
१६५
अथवा काका पाठः । अतस्तेषु वर्त्तमानत्वादेव हेतुस्ते - तव न व्यभिचारी भवति, अपितु भवत्येवेत्यर्थः ॥ ४७१ ॥
सामानाधिकरण्यं चेदिति परमतमाशङ्कते ।
"
सामानाधिकरण्यं चेद्वाधितं तेषु कल्प्यते । विवक्षितेsपि विस्पष्टा बाधेषा किं न वीक्ष्यते ॥ ४७२ ॥ अव्युत्थायितत्प्रत्यय सामानाधिकरण्ये सतीति हेतोर्विशेषणं दीपादिप्रत्ययैर्व्यमिचापरिहारार्थमेव कृतम् एषां हि दीपादिप्रत्ययानामेकविषयत्वस्य बाधितत्वात् । तथाहि--तरक्षणमेव दीपो दीर्घशिखो नम्रशिखश्च दीप्रो दीप्रतरवोपलभ्यते । तत्कुतो व्यभिचारिता हेतोरिति परस्य भावः । तदेतद्विशेषणमप्यसिद्धमिति दर्शयमाह - विवक्षितेऽपीत्यादि । विवक्षितसाध्यधर्मे तत्रापि बाधा किं न वीक्ष्यते । तथाहि चैत्रादावपि बालकुमारतरुणादिभेदेन व्यावर्त्तमानाकार एव प्रत्ययो जायते, पर्वतादौ शीतोष्णादिभेदेन ततः स्पष्टतरमेवान्यथात्वमेषां प्रदीपादिवत्प्रसिद्धम् । अन्यथा हि य एव शीतसंबद्धः स एव यदि पश्चादुष्णसंबद्धः स्यात्तदाऽवस्थाद्वयेऽपि शीतोष्णयोरुपलम्भः स्यात् । तत्संबद्धस्वभावस्य भावे तयोरपि भावस्य प्रसङ्गापत्तेः । निगडबद्धपुरुषाकर्षणे निगडाकर्षणवदित्युक्तप्रायमेतत् । अतः स्रविशेषणोऽपि हेतुरसिद्धः ॥ ४७२ ॥
अनुमानबाधामप्याह - विवादपदमित्यादि ।
विवादपदमारूढा नैकार्थविषया धियः । क्रमेणोत्पद्यमानत्वाद्विद्युद्दीपादिबुद्धिवत् ॥ ४७३ ॥ क्रमभावविरोधो हि ज्ञानेष्वेकार्थ भाविषु । अन्यैरकार्यभेदस्य तदपेक्षाविरोधतः ॥ ४७४ ॥
प्रयोगः– यत्क्रमभावि तत्सदा सन्निहिताविकलकारणं न भवति यथा विद्युद्दी - पादिबुद्धयः, क्रमभाविन्यश्च विवादास्पदीभूता बुद्धय इति व्यापकविरुद्धोपलब्धिः 1 नचानैकान्तिकत्वं हेतोः, एकवस्तुविषयत्वे सत्यविकलकारणस्य क्रमभावानुपपत्तेः । नापि कारणान्तरापेक्षा नित्यस्य तेनानुपकार्यत्वात् । नचानुपकारिण्यपेक्षा युक्ताऽतिप्रसङ्गात् । उपकारे वा नित्यत्वहानिप्रसङ्ग इति शतशश्चर्चितमेतत् ॥ ४७३ ॥
॥। ४७४ ।।