________________
पत्र.
९३० भाजनलोकः-सत्त्वलोकः सत्त्वानि प्राणिनः, तल्लक्षणो लोकः सत्त्वलोकः, सत्त्वा.
नामाश्रयभूतदेशलक्षणो लोको भाजनलोकः । ९३२ दुःखधर्मज्ञानक्षान्त्यादयः-दुःखं समुदयो निरोधो मार्गश्चेति चत्वार्यार्यसत्यानि ।
तेषु दुःखे धर्मज्ञानक्षान्तिः दुःखे धर्मज्ञानम् दुःखेऽन्वयज्ञानशान्तिः दुःखेऽन्वयज्ञानम् , एवमेकैकस्मिनार्यसत्ये क्षान्तिद्वयज्ञानद्वयभेदादष्टौ क्षान्तयोऽष्टौ ज्ञानानि; तत् आहत्य षोडशभिनोऽयं सत्याभिसमयः । अयं भेदो व्यक्तो धर्मसङ्ग्रहे ।
एवमस्य निबन्धस्य भावं दर्शयता सया। प्रसङ्गात् कतिचिच्छब्दा व्याख्याताः पारिभाषिकाः ॥
पुरा खलु सौगतदर्शनमिदं भारतवर्षे परितः संप्रवृद्धं वसुबन्धुदिङ्नागधर्मकीर्तिभिरप्रतिहततर्कग्रन्थकर्तः मागैरन्यैश्च तैस्तैरनेकनिबन्धनिर्माणमुखेन प्रतिष्ठां नीतमतिप्रवृद्धतैर्थिकवाद.
समयः। वाताहतिभिरप्यप्रकम्प्यमभूत् । सपदि सजातैरुद्योतकरभकुमारिलप्रमृतिमिस्तैथिकैरप्रतिद्वंद्वैतर्कशरवर्षे शिथिलीकृतमूलं तदिदमवलोक्य सोऽयं शान्तरक्षितः सकलतेर्थिकप्रवादोन्मूलनपूर्वकमात्मनो दर्शनं द्रढयन् निबन्धमेनमकरोत् । मन्ये समयः स तादृशः, यत् खसिद्धान्तप्रकाशनाय परमतं प्राधान्येन निरसनीयमभूत् । अत एव च वादरूपो निबन्धः परिणतोऽयम् । भट्टकुमारिलनिरसन एव चास्य निबन्धस्याष्टमो भागः प्रायः प्रवर्तते । सोऽयं शान्तरक्षितः वङ्गदेशे जाहोराख्ये प्रामे (Zahor or Sabhar in the Pargana of Vikrampur, Dacca District ) क्षत्रियवंशे कैस्ते अष्टमे शतके आदिमे भागे सजातः । कालेनायमाचार्यबोधिसत्त्वाख्यया प्रख्यातः तदानीन्तनेन टिबटदेशाधिपतिना खदेशं सादरं नीतस्तत्र सौगतसमयप्रचारमकारयत् । अनेनापरेऽपि निबन्धाः वादन्यायविपञ्चितार्थप्रभृतयः प्रणीताः। तत्रैव च देशेऽस्य निर्याणमप्यभूत् । अयं चास्य जीवितसमयः-A. D. 705-762 प्रायः षष्टिहायनपरिमितः सम्भाव्यते ।
कमलशीलश्च पश्चिकाकारः शान्तरक्षितस्यास्य शिष्यः नालन्दाविश्वविद्यालये तत्रशालेs. ध्यापकपदमधिगतस्तस्मिनेव समये आसीत् । अनेन न्यायबिन्दुपूर्वपक्षसंक्षेपप्रभृतयः प्रबन्धाः प्रणीताः। अनयोश्चरितं कालनिर्णयः, ये चास्मिनिबन्धकारा अनूदितास्तेषां कालनिर्णयश्च विस्तरेण श्रीमता महाशयेन अप्रतिमविद्यावैभवेन सुगृहीतनामधेयेन विनयतोषभट्टाचार्येण (Benoytosh Bhattacharya, M. A, Ph. D. General Editor of the Gaekwar Oriental series) प्रकाशित इति तत्प्रकाशनारम्भात्प्रत्यावृत्योपसंहियते नाम प्रस्तावना । हस्तगतोऽप्यर्थोऽवसर एव शोभेत प्रकाश्यमानः। न च संस्कृतभाषया तस्यैव प्रकाशने कश्चित्स्याद्विशेषः।
उदयति सहस्रमानौ प्राग्भागे सार्वलौकिकालोके । प्रज्वालयन् प्रदीपान् भवति जनानां पर हास्यः ॥