SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ लोकमागम्य परिनिर्वास्यतीति तथोच्यते षष्ठान्मार्गक्षणादूर्ध्व नवमक्षणलक्षणमार्गतः प्राक् मार्गे स्थितः अनागामिफलप्रतिपक्षक उच्यते । नवमे तु स्थितः अनागामीत्युच्यते । सोऽयमिमं लोकमनागम्य लोकान्तर एव स्थितो मार्गेणोत्तरोत्तरेणाधिगतेन प्रक्षीणानुशयावशेषः परिनिर्वास्यतीति अनागामिपदेन निर्दिश्यते । नवमलक्षणमार्गत ऊर्ध्व नवमक्लेशप्रकारप्रहाणक्षणादर्वाग्ज्ञानक्षणेषु वर्तमान अर्हत्फलप्रतिपन्नक उच्यते । नवमक्लेशप्रकारप्रहाणे त्वर्हन्नुच्यते । सोऽयं सर्वैरेव देवमानुषासुरलोकैः क्रियमाणां पूजामहतीत्यर्हबुच्यते । त एते फलस्थप्रतिपन्नकभेदेनाष्टौ महापुरुषपुद्गला उच्यन्ते। प्रपचितोऽयमों माध्यमिकवृत्तावार्य सत्यपरीक्षायाम्। ५२९ अरूपधातुः कामधातुः रूपधातुः अरूपधातुश्चेति त्रिधा लोकविभागः । चक्षुरादिलक्षण विज्ञानद्वारसम्पत्त्यसम्पत्तिभेदेनायं भेदः । ५३८ आस्रवः-आस्रवति (संसृतौ) अनेनेत्यास्रवः रागादिमलकलकः । अयमेवासव इत्यपि परिभाष्यते मोहापादकत्वेनासवसाम्यात् । विभक्तश्चायं चतुर्धा कैश्चित्-कामासवो भवासवो दृष्ट्यासवोऽविद्यासवश्चेति । ८४२) ९२३ ९१. दशभूमयः-प्रमुदिता विमला प्रभाकरी अर्चिष्मती सुदुर्जया अभिमुखी दूरङ्गमा चला साधुमती धर्ममेधा चेति दशैता भूमयः, बोधिसत्त्वावस्थां यावत् । बुद्धभावप्राप्तौ तु तत ऊर्ध्वम् । १४ मारा:-बुद्धपदस्य प्रतिहतिकरा माराः परिभाष्यन्ते । ते च चत्वारः-स्कन्धमारः क्लेशमारः देवपुत्रमारः मृत्युमारश्चेति । ८७७ त्रियानम्-श्रावकयानं प्रत्येकयानं बुद्धयानं चेति । , चतुःसत्यम्-दुःखं समुदयो निरोधो मार्गश्चेति प्रस्तावनायां व्याख्यातम् । ८८९ चातुर्महाराजकायिकादयः-षट कामावचरा देवाः ते यथा चातुर्महाराजकायिकाः त्रायस्त्रिंशाः तुषिताः यामाः निर्माणरतयः परनिर्मितवशवर्तिनश्चेति। अष्टादश रूपावचराः-ब्रह्म कायिकादयः। चत्वारोऽरूपावचरा देवाः-आकाशानन्यायतनोपगादयः। व्यक्तमेतद्धर्मसङ्कहे। ८९५ मार्गः-सम्यग्दृष्टिप्रमृतिः सम्यक्समाधिपर्यन्तःआर्याष्टाशिको मार्गःप्रस्तावनायां व्याख्यातः। ९०९ शानत्रयसुगतिप्रतिष्ठापनम्-तत्र ज्ञानत्रयम्-अविकल्पकम् विकल्पसमभावबोधकम सत्यार्थोपायपरोक्षं चेति । धर्मसङ्ग्रहे। ९१६ अकनिष्ठाः-रूपावचरदेवेष्वकनिष्ठानाम देवा निर्दिष्टाः, यथा-ब्रह्मकायिकाः ब्रह्मपुरोहिताः ब्रह्मपार्षयाः महाब्रह्माणः परित्तामाः अप्रमाणामाः अभाखराः परीत्तशुभाः शुभकृत्माः अननकाः पुण्यप्रसवाः बृहत्पलाः असंझिसत्त्वाः अबृहाः तपाः सुदृशाः सुदर्शना अकनिष्ठाबेखटादश रूपावचारादेवा इति । तेषामेव देश भकनिष्ठ इत्युच्यते ।
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy